तारा प्रत्यङ्गिराकवचम्
ॐ प्रत्यङ्गिरायै नमः ।
ईश्वर उवाच -
ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १॥
शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥ २॥
ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रून् स्तम्भय स्तम्भय ॥ ३॥
ॐ क्षोभिणी स्त्रें स्त्रें मम शत्रून् क्षोभय क्षोभय ॥ ४॥
ॐ मोहिनी स्त्रें स्त्रें मम शत्रून् मोहय मोहय ॥ ५॥
ॐ जृम्भिणी स्त्रें स्त्रें मम शत्रून् जृम्भय जृम्भय ॥ ६॥
ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रून् भ्रामय भ्रामय ॥ ७॥
ॐ रौद्री स्त्रें स्त्रें मम शत्रून् सन्तापय सन्तापय ॥ ८॥
ॐ संहारिणी स्त्रें स्त्रें मम शत्रून् संहारय संहारय ॥ ९॥
ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र
रक्ष रक्ष मां स्वाहा ॥ १०॥
य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रून् न संशयः ॥ ११॥
रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२॥
अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीम् ।
अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः
ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३॥
इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४॥
नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५॥
इति रुद्रयामले श्रीमदुग्रतराया प्रत्यङ्गिरा कवचं समाप्तम् ॥
Note:
Although this text from Rudrayamalam looks like a stotra, this is actually a kavacham. All kavacha of Mahavidya coupled with Pratyingira is of this form. It is not a Abhicharik kavacha and should not be misused for Abhicharik karma (malevolent practices). Rather ᳚Shatru᳚ in this kavacha refers to inner senses of Sadhak, which refrains him/her from watching the divine light. (Kunal)