श्रीताराशतनामस्तोत्रम्
(अथ श्रीकालीविलासतन्त्रे द्वादशपटलः ।)
श्रीदेव्युवाच ।
श्रुणु पार्वति वक्ष्यामि शतनाम शुभानि च ॥ १॥
अस्य श्रीशतनाम स्तोत्रस्य श्रीसदाशिव ऋषिर्गायत्रोच्छन्दः
श्रीतारादेवता चतुर्वर्गसिद्धये विनियोगः ॥
ॐ अद्वैतरूपिणी आद्या असिता अणिमा तथा ।
अम्बिका चापरा चैव अपर्णा अलिनीति च ॥ २॥
अलम्बुषा अघोरा च अक्रूरा घोररूपिणी ।
शोभा च सुखदा सत्या सदा सन्तोषकारिणी ॥ ३॥
सीमन्तिनी इडा चैव अलङ्ग पिङ्गला तथा ।
दलिताञ्जनसङ्काशा तारिणी तरुणेक्षणा ॥ ४॥
तापसी तपनाराध्या तारा च तरलेक्षण ।
तूरीया तीर्थरूपा च कारिणी रागरूपिणी ॥ ५॥
विष्णुशक्तिः सादाराध्या सर्वशक्तिः सदार्चिता ।
महेशशक्तिर्माहेशी नानामुणिगणार्चिता ॥ ६॥
रागिणी रेणुकारम्या रक्तपद्मदलेक्षणा ।
रामशक्ती रामपूज्या नित्या श्रीरामचर्चिता ॥ ७॥
रत्नरङ्गा रणाध्यक्षा रणधीरा रणाग्रणीः ।
कृष्णवर्णा कृष्णपूज्या कृष्णशक्तिः करालिनी ॥ ८॥
धनुईरा च धानुष्को धन्या धर्मप्रदायिनी ।
कलुषघ्ना पापहरा पापारिः पापनाशिनी ॥ ८॥
पापरूपा च निष्पापा अकलङ्का कलङ्किनो ।
कलङ्कनाशिनी काली कलिकल्मषनाशिनी ॥ १०॥
गङ्गा च यमुना चैव तथा गोदावरीति च ।
नर्मन्दा सिन्धुरूपा च कावेरो पुस्करा तथा ॥ ११॥
सुन्दरी भैरवी भव्या मातङ्गी वगलामुखी ।
कैलासवासिनी नित्या कालरात्रिः करालिका ॥ १२॥
काशीप्रयागरूपा च कौमारी कौषिकी तथा ।
क्रोधरूपा च अक्रोधा खेला हेला हलाहला ॥ १३॥
शतनाम च ते भक्त्या तारायाः परिकीर्त्तितम् ।
अष्टोत्तरशतं जप्त्वा दशधावा वरानने ॥ १४॥
ततः स्तवं पठित्वा वै सर्वसिद्धीश्वरो भवेत् ।
त्रिसन्ध्यं यः पठेन्नित्यं कलिकालस्य सम्मतम् ॥ १५॥
अष्टसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले ।
पूजाकाले निशीथे वा पठित्वामुक्तिमाप्नुयात् ॥ १६॥
इति श्रीकालीविलासतन्त्रे श्रीताराशतनामस्तोत्रं समाप्तम् ।
ॐ तत्सदित्यादि ।
इति श्रीकालीविलासतन्त्रे द्वादशपटलः समाप्तः ।
Proofread by Rajesh Thyagarajan