त्रैलोक्यमोहनश्रीसीताकवचम्

त्रैलोक्यमोहनश्रीसीताकवचम्

श्रीलक्ष्मण उवाच । कृताञ्जलिपुटो भूत्वा नत्वा शिरसि लक्ष्मणः । उवाच परमं दिव्यं सीतायाः कवचं परम् ॥ १॥ त्वत्तः श्रोतुमिच्छामि त्रैलोक्यमोहनं महत् । कथयस्व रघुश्रेष्ठ दिव्यं कवचमुत्तमम् ॥ २॥ श्रीराम उवाच । श्रृणु वत्स महादिव्यं महामङ्गलदायकम् । महासिद्धिकरं पुंसां महासम्पत्तिदायकम् ॥ ३॥ त्रैलोक्यमोहनं नाम कवचं परमाद्भुतम् । यः पठेत्सततं भक्त्त्या अपुत्रः पुत्रवान् भवेत् ॥ ४॥ अष्टाक्षरं महामन्त्रं पठेत् कवचसंयुतम् । ततः सिद्धिमवाप्नोति अकीलमतुलं वरम् ॥ ५॥ ॐ अस्य श्रीसीतात्रैलोक्यमोहनकवचमन्त्रस्य श्रीरामऋषिरनुष्टुप् छन्दः श्रीसीतादेवता श्रीसीताप्रीत्यर्थे जपे (पाठे) विनियोगः ॥ ध्यानम् - नीलाम्भोजदलाभिरामनयनां नीलाम्बरालङ्कृतां गौराङ्गीं शरदिन्दुसुन्दरमुखीं विस्मेरबिम्बाधराम् । कारुण्यामृतवर्षिणीं हरिहरब्रह्मादिभिर्वन्दितां ध्यायेद्भक्तजनेप्सितार्थफलदां रामप्रियां जानकीम् ॥ ॐ शिरो मे भूभवा पातु ललाटे जनकात्मजा । नेत्रे पातु कुजा चैव वैदेही श्रुतिरक्षिणी ॥ १॥ जिह्वां मे जानकी पातु ग्रीवां जनकनन्दिनी । स्कन्धौ पातु महामाया भुजौ पातु सुलोचना ॥ २॥ करौ पातु सदा सीता हृदयं रामपार्श्वगा । मध्यं पातु च पद्माक्षी नाभिं मे वनवासिनी ॥ ३॥ कटिं योगेश्वरी पातु सक्थिनीं मृगध्वंसिनी । उरू मे पातु वैदेही जानुनी भिल्लमोक्षिणी ॥ ४॥ जङ्घे बालिप्रमाथिनी चतुष्पदी दैत्यनाशिनी । सर्वाङ्गं पातु स्वच्छाङ्गी सदा पातु प्रबोधिनी ॥ ५॥ विभीषणश्रीदा पातु सद्यश्चैव दिशो दश । सीतायाः कवचं ह्येतद्देवानामपि दुर्लभम् ॥ ६॥ त्रैलोक्यमोहनं नाम त्रैलोक्यधनदायकम् । मुच्यते सर्वपापेभ्यो निर्वाणमधिगच्छति ॥ ७॥ अश्वमेधायुतफलं पठनाल्लभते नरः । नित्यं पठति भक्त्या यः तस्य सीता प्रसीदति ॥ ८॥ राज्यलाभो भवेत्तस्य मम भक्तिश्च पुष्कला । यः पठेत्तु ममाग्रे वै पूजाकाले प्रयत्नतः । सौमित्रे च श्रृणुष्व त्वं ददामि वाञ्छितं फलम् ॥ ९॥ अष्टाक्षर मन्त्रः । ॥ ॐ ह्रीं श्रीं सीतायै नमः ॥ अयुतं जपेन्मन्त्रं सर्वसिद्धि प्रदायकम् । वटवृक्षतटे पाठे अष्टादशशतेन च ॥ १०॥ षट्विप्रकृते जाप्यम् ॥ १८०० ॥ त्रिशतेन पृथक् पृथक् ॥ एवं नित्यं कृते चैव वर्षपर्यन्त मानवः । क्षीराज्यशर्करा हव्यं गोधूम हृदयं पचेत् ॥ ११॥ भोज्यमाहार एकश्चभूमिशायी जितेन्द्रियः । ब्राह्मणे दक्षिणांदत्वा नानालंकारवस्त्रदः ॥१२॥ स्वधर्मनिरतः प्राणी अहिंसा सत्यवाक् पटुः । एकचित्तो भवेत्तस्य कवचं स्फूर्तिसंयुतः ॥१३॥ अपुत्रो लभते पुत्रं सत्यं श्रीरामभाषितम् । अयुतमेक पाठे च पुरश्चर्यं प्रसूतिकम् ॥१४॥ साक्षात्कल्पतरुः सीता ध्यायते यदि लक्ष्मण । वाञ्छितं वरदासद्यः सत्यं सत्यं वदाम्यहम् ॥१५॥ इति श्रीरुद्रयामल तन्त्रे श्रीरामलक्ष्मणसम्वादे श्रीरामविरचितं त्रैलोक्यमोहनश्रीसीताकवचं सम्पूर्णम् ॥ श्रीसीतात्रैलोक्यमोहनकवचं Encoded and proofread by Mrityunjay Pandey
% Text title            : Trailokyamohana Sita kavacham
% File name             : trailokyamohanasItAkavacham.itx
% itxtitle              : trailokyamohanasItAkavacham
% engtitle              : trailokyamohanasItAkavacham
% Category              : devii, sItA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Indexextra            : (Scan)
% Latest update         : June 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org