त्रिपुरसुन्दरीमानसपूजनस्तोत्रम्
श्रीगणेशाय नमः ॥
अमृतजलधिमध्योल्लासिरत्नान्तरीप-
प्रसृमरकिरणालीकल्पितोद्यानशोभे ।
सुरतरुनिकुरम्बस्पृष्टवातायनान्त-
श्चलदलिपटलीभिः कॢप्तधूपादिकृत्ये ॥ १॥
मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला-
मधिवसति विशाला कापि ते रत्नवेदी ।
तदुपरिकृतवासं दत्तबालार्कहासं
दिशतु शुभमनन्ते देवि सिंहासनं ते ॥ २॥
तदुपरि धृतनानाहेतिभूषाश्मरश्मि-
व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् ।
गलदमलदयाम्भःसिक्तभक्तप्ररोहां
प्रणवनलिनभृङ्गीं भावये ज्ञानभङ्गीम् ॥ ३॥
द्रुहिणहरिहराणां मौलिसञ्चारशीलं
मणिघटितविभूषारश्मिनिर्णेजितं च ।
निजमतिदृषदाहं भक्तिगङ्गापयोभिः
पदयुगममलं ते देवि निर्णेजयामि ॥ ४॥
गरुडमणिमयूखस्पर्धिदूर्वासनाथैः
कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसार्थैः ।
उपहितसितगन्धैः साक्षतैर्वारिभिस्ते
जननि चरणपद्मे पाद्यमाद्यं ददामि ॥ ५॥
फलकुसुमसनाथं नूत्नरत्नप्ररोहं
मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च ।
दरनियमितभक्तानीकवाञ्छाप्रदाने
करसरसिरुहेऽस्मिन्नर्ध्यमर्घ्ये ददामि ॥ ६॥
शिशिरकिरणजातीपत्रदेवप्रसून-
स्फुटितदलनवैलाक्रान्तकक्कोलगन्धम् ।
शिशिरममलमेतद्बद्धपीयूवसख्यं
सलिलमखिलमातस्त्वं प्रसन्नाऽऽचमेथाः ॥ ७॥
नवमणिहयपीठे प्रेतपद्मस्थितापि
प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि ।
दधिमधुघृतमिश्रं त्रिर्विराजोपनीतं
शशिमुखि मधुपर्कं त्वं मुखान्तर्नयेथाः ॥ ८॥
पुनराचमनं कार्यं जगज्जननि सुव्रते ।
त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥ ९॥
त्वरितसहचरीभिर्दत्तहस्तावलम्बं
चरणनलिनमेतत्पादुकास्थं विधाय ।
प्रविश विविधशालं स्नानगेहान्तरालं
पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १०॥
अपि रसिकविगीतं भक्तचित्तानुमत्यै
सदयहृदयभावे स्नाहि पञ्चामृतेन ।
शशिमृगमदमुस्तागारसिद्धार्थचूर्णैः
कुसुमजलविमिश्चैः स्वैरमुद्वर्तयाङ्गम् ॥ ११॥
परिजनपरिमृष्टे त्वच्छरीरे न याव-
च्छिशिरसलिलधारां कापि चिक्षप तावत् ।
उदयिनि जनमातः सीत्कृते बद्धभावै-
स्त्रिपुरमथनहासैर्व्रीडितं क्रीडितं ते ॥ १२॥
अथ विमलितरत्नस्वर्णदुर्वर्णकुम्भै-
स्त्रिभुवनगततीर्थानीतपानीयपूर्णैः ।
स्नपयति सुरनारीवृन्दमेतत्तथापि
प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३॥
विमलधवलचीनप्रच्छदप्रावृताङ्ग्या-
स्तव शिरसिरुहेभ्यो निर्हरेऽम्बाम्बुबिन्दुन् ।
अगरुशकलधूपैर्धूप्यतां चाङ्गमङ्गं
सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४॥
नवविमलविचित्रे वाससी नूत्नरत्न-
द्युतिकृतपुनरुक्तायामसंशोभिनी ते ।
अथ कुचपरिणाहाच्छादिनीं शुम्भनेत्र-
त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५॥
नहनमपि कचनां कङ्कतीभिर्विधाय
ग्रथितमणिविभूषां देवि वेणीं करोमि ।
निहितनवकिरीटालम्बिमुत्तबालताभि-
स्ततबहलमयूखां चन्द्रलेखा विदध्याम् ॥ १६॥
अलिकतलविलम्बिस्फीतसीमन्तमुक्ता-
सरणिधटितहीरास्पष्टचन्द्रात्ततन्द्रे ।
विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा
श्रवणयुगविभूषा देवि तोषाय भूयात् ॥ १७॥
विविधविरचनाभिर्भिन्नभिन्ना विभूषा
जनयतु तव कण्ठे देवि कामप्यभिख्याम् ।
गुणिनमपि गिरीशश्लेपदत्तान्तरायं
कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८॥
दरतरलविलम्बिस्वर्णसूत्रान्तगुच्छे
जननि तव दिशेतामङ्गदे शर्मकर्म ।
अथ वलयमणीनां रश्मिसम्भिन्नमुद्रां
जनयतु पुनरुक्तां शृङ्खलामन्तरीणाम् ॥ १९॥
मणिमयरशनाधःक्षुद्रघण्टानिनादा
मणितगुणनिकानां स्मारकाः स्युः शिवस्य ।
मरकतमणिजातं मञ्जुमञ्जीरयुग्मं
रचयतु शशिमौले रञ्जनं सिञ्जितेन ॥ २०॥
अरुणमणिकृतानामङ्गुलीभूषणानां
प्रभवतु पदमुस्रैर्लाक्षया रञ्जितं ते ।
मृगमदरचितायां पत्रभङ्गीलताया-
मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१॥
भज जननि हरिद्रां दत्तहारिद्रमुद्रां
कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् ।
अथ नसि कुरु मुक्तां दन्तवासोऽनुषक्तां
स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२॥
सहजनलिननीले खञ्जने खञ्जनानां
भवनिगडगतानां मोचने लोचने ते ।
जननि गिरिशचेतोरञ्जने मन्दमन्दं
मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३॥
प्रणतिभिरुपनीतं दीप्तलालाटनेत्र-
प्रतिभटमिव शम्भोर्मृत्युबाधाविरोधि ।
शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो
जनयतु मुदमुच्चैः कुङ्कुमं रङ्कुनेत्रे ॥ २४॥
युगपदुपगतेन्द्रोपेन्द्ररुद्रादिमौलि-
स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः ।
कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते
जननि भव विभूषा प्रेतपद्मासनस्य ॥ २५॥
अहमहमिकयाधः पातुकानां सुराणां
प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् ।
करुणरसमयीनां लोचनान्तश्छटानां
कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६॥
अगरुघुसृणचोरीशीरगोरोचनाभिः
मलयजमृगनाभिस्फीतकर्पूरपूरैः ।
कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं
पटुतरपटवासैर्वासये तेऽङ्गकानि ॥ २७॥
कमलकुमुदमल्लीमालतीकुन्दजाती-
बकुलकनकनीपाशोकचाम्पेयकाद्यैः ।
मरुबकतुलसीभिः केतकीबिल्वपत्रैः
दमनकशतपत्रैरर्चये त्वत्पदाब्जम् ॥ २८॥
हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुखैः ।
मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९॥
कनकमयहसन्तीकोटिमध्यस्थितानां
मृदुपवनधुतानां दीप्तवैश्वानराणाम् ।
अगरुमुपरि हुत्वा गुग्गुलुं सर्जखण्डान्
घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३०॥
धूपवर्तितरमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः ।
आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥
सुरसुरभिजसर्पिःपूरिते रत्नपात्रे
हिमकिरणरजोभिर्लोडितां तूलवर्तीम् ।
तरुणदहनयुक्तामम्ब कृत्वा ददेयं
निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ॥ ३२॥
रजतकनकहीराद्यश्मपात्रेषु मातः
विविधरससनाथैश्चोष्यलेह्यप्रपेयैः ।
उपाहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यैः
जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३॥
परस्परकुतूहलैः कवलदानरूपैः शिवे
पुराणतरुणौ युवां चरतमत्र लीलाशितम् ।
सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः
सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४॥
पनसकदलजम्बूकर्कटीहारहूरामलक-
बदरनिम्बूदुम्बरैर्बीजपूरैः ।
अमृतलकुचबिल्वैर्दाडिमीनालिकेरै
रुचिरुचितफलैस्ते वर्धतां बद्धरागा ॥ ३५॥
शशिकरधवलानां नागवल्लीदलानां
क्रमुककदरजातीचन्द्रसंयोगभाजाम् ।
मृगमदसुरसूनुस्फीतचूर्णावृतानां
भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ॥ ३६॥
कनकभरितपृथ्वीं मानुषानन्दमाहु-
स्तदुपरि शतकोटिक्रामुकानन्दमाहुः ।
जननि तव ददेयं दक्षिणां कां तथापि
प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७॥
त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा-
पटुपटहकझिल्लीतालघण्टानिनादैः ।
उरगसुरवधूभिर्गीयमानं समन्तात्
जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८॥
प्राणेषु पञ्चसु निधाय षडात्मवृत्ति-
वर्तीश्चिदग्निपरिचुम्बितजातशोभाः ।
नीराजयामि भवतीं भवतीव्रताप-
निर्वापहेतुमधुना मधुनाऽलसाक्षि ॥ ३९॥
उरगतुरगहंसकेकिशालूरभृङ्गी-
मदकलकलविङ्कीश्येनपारावतानाम् ।
गतिभिरुपचितोऽयं मौलितः पादमूलं
हरतु दुरितजातं देवि कर्पूरदीपः ॥ ४०॥
जय देवि जय देवि जय विश्वाधारे
दीनानाथोद्धरणप्रवणे जनसारे ।
त्वत्पदपद्मे पद्मे विधृतव्यापारे
मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१॥
अमृतोदधिमध्यस्थितनवरत्नद्वीपे
विष्वग्विकसितसुरतरुनवचम्पकनीपे ।
नानाकुसुमामोदिनि विधुतागरुधूपे
चिन्तामणिभवनेऽङ्गनतिष्ठत्सुरभूपे ॥ ४२॥
माणिक्योज्ज्वलचत्वरसिंहासनशोभे
शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे ।
सुश्वेतातपवारणचलचामरदम्भे
ध्याये भवतीमनिशं कृतजगदारम्भे ॥ ४३॥
दलितजपाकुसुमोपमवसनच्छन्नाङ्गीं
तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् ।
दधतीं रचनां नयने यमुनातारङ्गीं
कलयन्तीं कुचकोशे सुषमां नारङ्गीम् ॥ ४४॥
शरपञ्चकबाणासनसृणिपाशोल्लसितां
मलयानिलपरिवाददमुखपद्मश्वसिताम् ।
बालामृतकरमण्डितचूडातटमीहतां
ज्योतिस्त्रितयालङ्कृतनयनत्रयसहिताम् ॥ ४५॥
पशुपतियन्त्रणपटुतररोमावलियूपां
मन्मथतस्करगुप्तिक्षमनाभीकूपाम् ।
प्रपदालम्बिशिखामणिवृन्दारकभूपां
कमलासनहरिहरमुखचिन्त्यामितरूपाम् ॥ ४६॥
काली बगला बाला तारा भुवनेशी
वाराही मातङ्गी कमला वचनेशी ।
छिन्ना दुर्गा गङ्गा काशी कामेशी
त्वत्तो नान्यत्किञ्चित्त्वं चिद्रसपेशी ॥ ४७॥
त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं
त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् ।
त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं
सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८॥
कुलकुण्डे त्वं कुरुषे शयने प्रस्वापं
स्वाधिष्ठाने मिहिरायुतदीधितितापम् ।
नीला नाभौ कण्ठे शशिभा हृतपापं
वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४९॥
त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां
तत्रैव प्रतिवेलं मौलिर्मे नमताम् ।
यातायातक्लेशः सद्यः संशमतां
याचे भूयो भूयो भवता मे भवताम् ॥ ५०॥
नृत्यति गायति सुरसं सुरनारीवृन्दे
करतालीदानोत्सुकसुरविततानन्दे ।
नीराजनकाले तव मुनिजननुतवेदे
चरणानतसम्राजः परिहृतभवखेदे ॥ ५१॥
मिलदलिपटलीभिः केवलं घ्रातपूर्वः
स्फुटितकुसुमगर्भः स्वैरसञ्चारिणीभिः ।
उपहितपटवासः पुष्पधूलीकदम्बैः
प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ॥ ५२॥
सकृदपि विनताङ्घ्रिस्त्वां परिक्रम्य मातः
भवति मखफलेषु क्षीणलोभं मनो नः ।
सरसिजमकरन्दास्वादतृप्तो मिलिन्दः
क्वचिदपि पिचुमन्दे चित्तवृत्तिं तनोति ॥ ५३॥
जननि खलकपोतन्यायतः पातुकाना-
मधिपदकमलं ते मन्दवृन्दारकाणाम् ।
भवतु नयनयोस्ते गोचरः क्वानतिर्मे
न लसति पुनरुच्चेः स्वैरमुद्ग्रीविका चेत् ॥ ५४॥
विमलमुकुरबिम्बं पुण्डरीकातपत्रं
शिशिरकरसमाने चामरे चामरेशि ।
करितुरगकदम्बं शक्तिभिर्दिश्यमानं
जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५॥
अथ कृतपरिवाराभ्यर्चनं ते समर्प्य
स्तुतिभिरनुपमाभिः पावये स्वां रसज्ञाम् ।
यदपि न रविरश्मिः स्वोपकारं विधत्ते
तदपि कमलमालाम्लानहानिं तनोति ॥ ५६॥
श्रवसि विशति यस्य त्वन्मनोरेकवर्णः
सकृदपि विधियोगादम्बिके मानवस्य ।
लघुतरफलमेतद्यत्त्रिवर्गाश्रयत्वं
परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ॥ ५७॥
हृदयकमलमध्ये त्वां समानीय मातः
पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः ।
दधति परमधन्याः कुण्डलीस्पर्शहृष्य-
च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८॥
वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चित्
त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् ।
प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके
निखिलनिगममूलं मन्महे बोधमेव ॥ ५९॥
कदा तव पदाम्बुजस्मरणजातरोमोद्गमः
सदाशिवमदालसे जननि मातरित्युद्गिरन् ।
निलीनकरणक्रियस्त्रिदशगर्वसर्वङ्कषा-
मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६०॥
त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे
प्रसादकुलमन्दिरे स्थगितपद्मचन्देन्दिरे ।
प्रभापटलतन्तुरे ललितहावकेलीपुरे
हृतस्मरहरान्तरे धृतमतिर्भवं सन्तरे ॥ ६१॥
त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं
स्मरन्नन्तर्योगात्त्रिदिवपतितामाप सुरपः ।
इदं को जानीते क्षणमपि हरार्धं प्रजपतां
हसार्धं व्यालम्ब्य प्रतिफलति हंसः परिणतिः ॥ ६२॥
जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं
लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः ।
स्मरणविषये येन स्वैरं स्वरेण विजृम्भता
त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ॥ ६३॥
ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां
महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः ।
हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा-
स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतु ॥ ६४॥
त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनीं माद्यतो
जीवञ्जीवकुलस्य भृङ्गपटलीन्यक्कारबद्धव्रताम् ।
रङ्कूच्छङ्कुविधायिनीं च नलिनश्रीगर्वसर्वङ्कषां
कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनाङ्मोटय ॥ ६५॥
रिङ्गद्भृङ्गकदम्बडम्बरपरिष्वङ्गप्रसङ्गाकुल-
प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वङ्कषः ।
दृक्कोणः करुणाङ्कुराङ्क्षिततनुः कोऽप्यद्रिजे मद्वपुः-
पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥ ६६॥
समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया
पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया ।
ललल्लीलाभाजा परशिवपरिष्वङ्गपरया
धिया चेतः कालं नय गतनय त्वं क्षणमपि ॥ ६७॥
वेदैरङ्घ्रिभिरुज्ज्वलोपनिषदां वृन्दैरधःकल्पितैः
शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोङ्कारमार्गेण च ।
विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे
कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥ ६८॥
तरुणारुणप्रतिमरम्यरुचिं कुसुमेषुचापसृणिपाशकराम् ।
त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९॥
इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा ।
समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७०॥
इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते
पूजारत्नवर्ति त्रिपुरसुन्दरीमानसपूजनस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran