तुलसीस्तोत्रम् २
श्रीभगवानुवाच ।
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजा म्यहम् ॥ १८॥
पुरा बभूव या देवी ह्यादौ वृन्दावने वने ।
तेन वृन्दावनी ख्याता तां सौभाग्यां भजाम्यहम् ॥ १९॥
असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् ॥ २०॥
असङ्ख्यानि च विश्वानि पवित्राणि यया सदा ।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ २२॥
विश्वे यत्प्राप्तिमात्रेण भक्त्याऽऽनन्दो भवेद्ध्रुवम् ।
नन्दिनी तेन विख्याता सा प्रीता भविता हि मे ॥ २३॥
यस्या देव्या स्तुला नास्ति विश्वेषु निखिलेषु च ।
तुलसी तेन विख्याता तां यामि शरणं प्रिये ॥ २४॥
कृष्णजीवनरूपा या शश्वत्प्रियतमा सती ।
तेन कृष्णजीवनीति मम रक्षतु जीवनम् ॥ २५॥
इत्येवं स्तवनं कृत्वा तत्र तस्थौ रमापतिः ।
ददर्श तुलसीं साक्षात्पाद पद्मे नतां सतीम् ॥ २६॥
रुदतीमभिमानेन मानिनीं मानपूजिताम् ।
प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७॥
वृन्दां वृन्दावनीं विश्वपावनींविश्वपूजिताम् ।
पुष्पसारां नन्दिनीं च तुलसीं कृष्णजीवनीम् ॥ ३२॥
एतन्नामाष्टकं चैत त्स्तोत्रं नामार्थसंयुतम् ।
यः पठेत्तां च सम्पूज्य सोऽश्वमेधफलं लभेत् ॥ ३३॥
तुलसीं पुष्पसारां च सतीं पूज्यां मनोहराम् ।
कृत्स्नपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥ ४१॥
पुष्पेषु तुलनाप्यस्या नासीद्देवीषु वा मुने ।
पवित्ररूपा सर्वासु तुलसी सा च कीर्त्तिता ॥ ४२॥
शिरोधार्या च सर्वेषामीप्सितां विश्वपावनीम् ।
जीवन्मुक्तां मुक्तिदां च भज तां हरिभक्तिदाम् ॥ ४३॥
इति ब्रह्मवैवर्तपुराणे प्रकृतिखण्डे द्वाविंशाध्यायान्तर्गतं
तुलसीस्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय २२/१८-२५, ३२-३३, ४१-४३॥
brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 22/18-25, 32-33, 41-43..
Proofread by PSA Easwaran