तुङ्गास्तवः
किं वर्णयामि तव देवि महत्त्वमम्ब
यद्वेदगीतमहिमाऽपि सुरस्रवन्ती ।
सङ्गं स्वयं वितनुते कटके समेत्य
साकं त्वया वसति मासमपीह तुङ्गे ॥ १॥
यो मानवस्तव जले स्नपनं विधत्ते
किं भाग्यमस्य कथयामि मलघ्नि तुङ्गे ।
मद्रूपमेतु मनुजोऽयमिति प्रवादं
विष्ण्वीश्वरौ कुरुत आदिविनाशशून्यम् ॥ २॥
दुःखसम्भिन्नसुखदा देवास्तिष्ठन्तु भूरिशः ।
दुःखासम्भिन्नसुखदां तुङ्गभद्रां नमाम्यहम् ॥ ३॥
भक्तजनप्रसृतेयं करुणाधारा विभाति तुङ्गायाः ।
स्रोतोरूपं दधती स्नातृजनानां समस्तपापहरा ॥ ४॥
मज्जले स्नपनकर्तृनराणां तुङ्गभद्रमनिशं करवाणि ।
सूचनाय भवती करुणार्द्रे तादृशं किल दधात्यभिधानम् ॥ ५॥
तुङ्गे शुभदतरङ्गे मकरतुरङ्गेऽक्षिनिर्जितकुरङ्गे ।
शृङ्गेरी पुररङ्गे कचधुतभृङ्गे रमस्व हृद्रङ्गे ॥ ६॥
धिग् लोचने परमसुन्दरतुङ्गभद्रा-
सन्दर्शनेन रहिते रसनां च तां धिक् ।
या स्वादयेन्न किटिजन्मपयस्तथात्र
न स्नाति योऽस्य मनुजस्य धिगस्तु जन्म ॥ ७॥
त्वदीयं तुङ्गेऽम्भो बहुमधुरिमाढ्यं ह्यमृतवत्
ततः सर्वं जात्या जलममृतशब्दप्रगदितम् ।
त्वदन्यासामम्भः प्रकटसरितां यद्विषनिभं
ततः सर्वं जात्या विषमिति च शब्देन गदितम् ॥ ८॥
इति शृङ्गेरी जगद्गुरु श्रीचन्द्रशेखरभारती महास्वामिभिः कृतः
तुङ्गास्तवः समाप्तः ।