उमाष्टकम्
ॐ
ॐ नम उमा भगवत्यै ।
चामरं दक्षिणे हस्ते कमलं चोत्तरे तथा ।
रक्ताम्बरा दयामूर्तिः प्रसन्नोमास्तु सर्वदा ॥ १॥
सुवर्णसदृशीं गौरीं भुजद्वय-समन्विताम् ।
नीलपद्मं हि वामेन पाणिना बिभ्रतीं सदा ॥ २॥
दिवाकर-शतद्युतिं जननीं भुक्तिमुक्तिदाम ।
सुमुखीं वरदां देवी सिंहस्थां परिपूजयेत् ॥ ३॥
भक्ताय शिवरामाय स्नुषा ब्राहस्य सन्निधौ ।
स्वप्ने स्वं दर्शयामास रूपं वैराग्यदं शुभम् ॥ ४॥
काकरूपा ततो देवी भक्तानुग्रहकाम्यया
ओङ्काररूपसंभूता पञ्चधाऽभयदायिनी ॥ ५॥
प्रादुर्भूता नदीरूपा भक्तानां फलदायिनी ।
ओङ्काररूपसदृशी पञ्चधा दिव्य-कुण्डजा ॥ ६॥
भक्तः प्रभावयुक्तायाः स्वयमानन्दनामकः ।
देव्या भवनं निर्मातुं शिलान्यासं चकार सः ॥ ७॥
ओङ्काररूपेण विराजमाना सा पूजकानां वरदायिनी च ।
रक्ताम्बरा दिव्यवपुः उमाख्या सा ब्रह्मरूपा विजयस्य दात्री ॥ ८॥
इति उमाष्टकं सम्पूर्णम् ।
रचयिता -- स्वामी स्वयमानन्दजी
Proofread by Rajesh Thyagarajan, Rajani Arjun Shankara