उमामहेश्वरमाहात्म्यम्

उमामहेश्वरमाहात्म्यम्

उमा भगवती येयं ब्रह्मविद्येति कीर्तिता । रुपयौवनसम्पन्ना वधूर्भूत्वात्र सा स्थिता ॥ १॥ नानाजातिवधूनां हि बिम्बभूता महेश्वरी ॥ २॥ यस्याः प्रसादतः सर्वः स्वर्गम् मोक्ष च गच्छति । इह लोके सुखं तद्वज्जन्तुर्देवादिकोऽपि वा ॥ ३॥ ब्रह्मा विष्णुस्तथा रुद्र शक्राद्याः सर्वदेवताः । कटाक्षपाततो यस्या भवन्ति न भवन्ति च ॥ ४॥ पीनान्नतस्तनी प्रौढजघना च कृशोदरी । चन्द्रानना मीननेत्रा केशभ्रमरमण्डिता ॥ ५॥ सर्वाङ्गसुन्दरी देवी धैर्यपुञ्जविनाशिनी । काञ्चीगुणेन चित्रेण वलयाङ्गदनूपुरेः ॥ ६॥ हरिमुक्तादिसञ्जातैः कण्ठाद्याभरणैरपि । मुकुटेनापि चित्रेण कुण्डलाद्यैः सहस्रशः ॥ ७॥ विराजिता ह्यनोपम्यरूपा भूषणभूषणा । जननी सर्वजगतो द्व्यष्टवर्षा चिरन्तनी ॥ ८॥ तया समेतं पुरुषं तत्पतिं तद्गुणाधिकम् । ब्रह्मादीनां प्रभुं नानासर्वभूषणभूषितम् ॥ ९॥ द्वीपिचर्मावृतं शश्वदथवापि दिगम्बरम् । भस्मोद्धूलितसर्वाङ्गं ब्रह्ममूर्घौघमालिनम् ॥ १०॥ तथैव चन्द्रखण्डेन विराजितजटातटम् । गङ्गाधरं स्मेरमुखं गोक्षीरधवलोज्जवलम् ॥ ११॥ कन्दर्पकोटिसदृशं सूर्यकोटिसमप्रभम् । सृष्टिस्थित्यन्तकारणं सृष्टिस्थित्यन्तवर्जितम् ॥ १२॥ पूर्णेन्दुवेदेनाम्भोजं सूर्यसोमाग्निवर्चसम् । सर्वाङ्गसुन्दरं कम्बुग्रीवं चातिमनोहरम् ॥ १३॥ आजानुबाहुं पुरुषं नागयज्ञोपवीतिनम् । पद्मासनसमासीनं नासाग्रन्यस्तलोचनम् ॥ १४॥ वामदेवं महादेवं गुरूणां प्रथमं गुरुम् । स्वयञ्ज्योतिःस्वरूपं तमानन्दात्मानमद्वयम् ॥ १५॥ यतो हिरण्यगर्भोऽयं विराजो जनकः पुमान् । जातः समस्तदेवानामन्येषां च नियामकः ॥ १६॥ नीलकण्ठममुं देवं विश्वेशं पापनाशनम् । हृदि पद्मेऽथवा सूर्ये वह्नौ वा चन्द्रमण्डले ॥ १७॥ कैलासादिगिरौ वापि चिन्तयेद्योगमाश्रितः । एवं चिन्तयतस्तस्य योगिनो मानसं स्थिरम् ॥ १८॥ यदा जातं तदा सर्वप्रपञ्चरहितं शिवम् । प्रपञ्चकरणं देवमवाङ्मनसगोचरम् ॥ १९॥ प्रयाति स्वात्मना योगी पुरुषं दिव्यमद्भुतम् । तमसः स्वात्ममोहस्य परं तेन विवर्जितम् ॥ २०॥ साक्षिणं सर्वबुद्धीनां बुद्ध्यादिपरिवर्जितम् । उमासहायो भगवान्सगुणः परिकीर्तितः ॥ २१॥ निर्गुणश्च स एवायं न यतोऽन्योऽस्ति कश्चन् । ब्रह्मा विष्णुस्तथा रुद्रः शक्रो देवसमन्वितम् ॥ २२॥ अग्निः सूर्यस्तथाकाशः कालः सृष्टयादिकारणम् । एकादशेन्द्रियाण्यन्तःकरणं च चतुर्विधम् ॥ २३॥ प्राणाः पञ्च महाभूतपञ्चकेन समन्विताः । दिशश्च प्रदिशस्तद्वदुपरिष्टादधोऽपि च ॥ २४॥ श्वेदजादीनि भूतानि ब्रह्माण्डं च विराड्वपुः । विराड् हिरण्यगर्भश्च जीव ईश्वर एव च ॥ २५॥ माया तत्कार्यमखिलं वर्तते सदसच्च यत् । यच्च भूतं यच्च भव्यं तत्सर्वं स महेश्वरः ॥ २६॥ ॥ इति उमामहेश्वरमाहात्म्यं सम्पूर्णम् ॥ Encoded and proofread by Venkata Surya Jagannadha Rao Garimella
% Text title            : Uma Maheshvara Mahatmyam
% File name             : umAmaheshvaramAhAtmyam.itx
% itxtitle              : umAmaheshvaramAhAtmyam
% engtitle              : umAmaheshvaramAhAtmyam
% Category              : devii, shiva, mAhAtmya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Venkata Surya Jagannadha Rao Garimella
% Proofread by          : Venkata Surya Jagannadha Rao Garimella, NA
% Indexextra            : (Scan)
% Latest update         : May 22, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org