वाणी-गीतिका
कवि-जननी त्वं
शतदल-निवासिनी,
भव-शमनी त्वं
सुविमल-सुवासिनी ।
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ (ध्रुवम्)॥
हृदि मम शारदे ! रचय निजालयम्,
सुमति-विशारदे ! वितर शुभाशयम् ।
अयि मातः सारदे !
प्रणतिरियं श्रीपदे ।
अघ-दहनी त्वं
जड़-बल-निरासिनी,
प्रोज्ज्वल-विभासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ १॥
तव कृपया सदा नश्यतु तामसम्,
ज्योतिःसम्पदा दीव्यतु मानसम् ।
भगवति हे सारदे !
प्रणतिरियं श्रीपदे ।
नव-कवनी त्वं
बुध-गल-विलासिनी,
मङ्गल-विकासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ २॥
त्वमसि सरस्वती कमल-समर्चना,
सुललित-भारती सुमधुर-मूर्च्छना ।
धृत-वीणे सारदे !
प्रणतिरियं श्रीपदे ।
सन्मिलनी त्वं
कश्मल-परासिनी,
कोमल-सुहासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ ३॥
न भवतु मे मति-र्विपदि समाकुला,
प्रसरतु मे गति-र्वाङ्मय-मञ्जुला ।
जय जय हे सारदे !
प्रणतिरियं श्रीपदे ।
काव्य-वनी त्वं
पेशल-समासिनी,
प्राञ्जल-सुशासिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ ४॥
प्रणवमयाक्षरे ! नन्दय सादरम्,
स्फटिक-स्रग्धरे ! विन्दय सुन्दरम् ।
दह दुरितं सारदे !
प्रणतिरियं श्रीपदे ।
शं-वहनी त्वं
परिमल-निकासिनी,
पुष्कल-कला सिनी ।
कवि-जननी त्वं
शतदल-निवासिनी ।
सुविमल-सुवासिनी ॥ ५॥
-- रचना : डाॅ हरेकृष्ण-मेहेरः
(``मातृगीतिकाञ्जलिः'' - काव्यतः)
Copyright Dr.Harekrishna Meher