श्रीवाणीप्रश्नमालास्तवः
(जैत्रयात्नामधिकृत्य श्रीवाण्याज्ञानन्तरं)
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतोऽस्य ।
किं मां दूरीकुरुषे देवि गिरां ब्रूहि कारणं तत्र ॥ १॥
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वम् ।
औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥ २॥
आनीय दूरतो मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥ ३॥
अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणाम् ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद वाणि ॥ ४॥
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदे तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरोषि वद वाणि ॥ ५॥
गुरुरूपेणाबाल्यात्सोढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरोषि वद वाणि ॥ ६॥
जगतां पालनमनिशं कुर्वन्त्यास्ते भवेत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरोषि वद वाणि ॥ ७॥
पापान्निवार्य सरणौ विमलायां मे प्रवर्तने तरसा ।
कर्तव्ये सति कृपया कस्माद्दूरीकरोषि वद वाणि ॥ ८॥
यद्यप्यन्यानन्यान्देवानाराधयामि न त्वं ते ।
सर्वात्मिकेति चपलः कस्माद्दूरीकरोषि वद वाणि ॥ ९॥
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तम् ।
पात्रमहेतुकदयायाः कस्माद्दूरीकरोषि वद वाणि ॥ १०॥
तव सद्मनि गुरुसदने विद्यातीर्थालये च बहुसुखतः ।
खेलां कुर्वन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ ११॥
त्वत्क्षेत्रनिकटराजन्नरसिंहाख्याचलशृङ्गाग्रे ।
स्वैरविहारकृतं मां कस्माद्दूरीकरोषि वद वाणि ॥ १२॥
त्वत्पादपूततुङ्गातीरे विजने वने चरन्तं माम् ।
अनुघस्रं मोदभरात्कस्माद्दूरीकरोषि वद वाणि ॥ १३॥
तुङ्गातीरे दिनकरनिवेशनिकटस्थले विपुले ।
ध्यायन्तं परतत्त्वं कस्माद्दूरीकरोषि वद वाणि ॥ १४॥
तुङ्गातीरे रघुवरमन्दिरपुरतः सुदीर्घपाषाणे ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ १५॥
जातु च नरसिंहपुरे तुङ्गातीरे सुसैकते मोदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरोषि वद वाणि ॥ १६॥
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमोदात् ।
कुहचित्तुङ्गातीरे कस्माद्दूरीकरोषि वद वाणि ॥ १७॥
शङ्करभगवत्पादप्रणीतचूडामणिं विवेकादिम् ।
शृण्वन्तं नृहरिवने कस्माद्दूरीकरोषि वद वाणि ॥ १८॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीवाणीप्रश्नमालास्तुतिः समाप्ता ।
Proofread by PSA Easwaran