वाणीवन्दनम्
शारदे देहि विद्यामहं प्रार्थये ।
मातरं प्रार्थये, दैवतं प्रार्थये ॥ १
ते तु दिव्यः प्रकाशः सदा राजते ।
त्वां समाराध्य भक्तः तथा भासते ॥ २
देहि दिव्यं प्रकाशं मुदा भावये ।
शारदे देहि विद्यामहं प्रार्थये ॥ ३
त्वं तु वेदस्य वाणी परा देवता ।
सर्वमन्त्रास्तवाराधने संरताः ॥ ४
देहि भक्तिं प्रसन्ना शिवे प्रार्थये ।
शारदे देहि विद्यामहं प्रार्थये ॥ ५
- डाॅ उमा पाण्डेय, डाॅ कृष्ण नारायण पाण्डेय
Encoded and proofread by Mohan Chettoor