वन्देऽहं वीणावादिनीम्
वन्देऽहं वीणावादिनीम् ।
कण्ठे सर्वदा निवासिनीम् ॥ १॥
कुर्वेऽहं मातः ! याचनां
पूरय कृपया कविकामनां
नौमीशां हंसे गामिनीम् ॥ २१॥
साहाय्यं कुरुषे सर्वदा,
वाणी देवि! त्वं सिद्धिदा,
कर्णे मे मधुर भाषिणीम् ॥ ३॥
ते मातः ! शुभ्रा ज्योत्स्ना,
काव्ये सफला स्याद् योजना,
ध्याये त्वां चिन्त्ताकर्षिणीम् ॥ ४॥
शून्योऽहं तव सत्वं विना,
मत्कार्यं नो एकाकिना,
जाने गां वीणाधारिणीम् ॥ ५॥
गाढोऽयं कवितासागरः,
तुल्योऽहं ते नखशीकरः,
याचे त्वां सागरतारिणीम् ॥ ६॥
ध्यानेश्वरी ज्ञानेश्वरी,
प्रेमाहं त्वं वागीश्वरी,
वन्दे कविकाव्यविहारिणीम् ॥ ७॥
-- प्रेम शङ्कर शर्मा