वैष्णवीदेवीस्तुतिः
वन्देऽहं युवतीं नित्यां कृष्णवर्णां चतुर्भुजाम् ।
रविमण्डलमध्यस्थां गायत्रीं सुखदां नृणाम् ॥ १॥
शङ्ख-चक्र-गदा-पद्मधारिणीं दुःखदारिणीम् ।
वैष्णवीं गरुडारूढां भक्तानां भयहारिणीम् ॥ २॥
अनन्यशरणां ज्ञात्वा प्रपद्ये शरणं तव ।
त्वदेकशरणं मातः त्राहि मां शरणागताम् ॥ ३॥
श्लोकमेतत् त्रयं नित्यं मध्याह्ने तु विशेषतः ।
सायं-प्रातः पठेन्नित्यं सर्वकामप्रदा भवेत् ॥ ४॥
इति श्रीगार्ग्यमुनि''द्विजेन्द्र''कविकृता वैष्णवीदेवीस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com