श्रीवैष्णवीस्तुतिः
नमो देवि महाभागे गम्भीरे भीमदर्शने ।
जयस्थे स्थितिसिद्धान्ते त्रिनेत्रे विश्वतोमुखि ॥ १॥
विद्याविद्ये जपे जाप्ये महिषासुरमर्दिनि ।
सर्वगे सर्वदेवेशि विश्वरूपिणि वैष्णवि ॥ २॥
वीतशोके ध्रुवे देवि पद्मपत्रशुभेक्षणे ।
शुद्धसत्त्वव्रतस्थे च चण्डरूपे विभावरि ॥ ३॥
ऋद्धिसिद्धिप्रदे देवि विद्येऽविद्येऽमृते शिवे ।
शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृते ॥ ४॥
घण्टाहस्ते त्रिशूलास्त्रे महामहिषमर्दिनि ।
उग्ररूपे विरूपाक्षि महामायेऽमृतस्रवे ॥ ५॥
सर्वसत्त्वहिते देवि सर्वसत्त्वमये ध्रुवे ।
विद्यापुराणशिल्पानां जननी भूतधारिणि ॥ ६॥
सर्ववेदरहस्यानां सर्वसत्त्वमतां शुभे ।
त्वमेव शरणं देवि विद्येऽविद्ये श्रियेऽम्बिके ॥ ७॥
विरूपाक्षि तथा क्षान्तिः क्षोभितान्तर्जलेऽमले ।
नमोऽस्तु ते महादेवि नमस्ते परमेश्वरि ॥ ८॥
शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि ।
न तेषाञ्जायते किञ्चिदशुभं रणसङ्कटे ॥ ९॥
यश्च व्याघ्रभये घोरे चौरराजभये तथा ।
स्तवमेनं सदा देवि पठिष्यति यतात्मवान् ॥ १०॥
निगडस्थोऽपि यो देवि त्वां स्मरिष्यति मानवः ।
सोऽपि बन्धैर्विमुक्तस्तु सुसुखं वसते सुखी ॥ ११॥
इति श्रीवराहपुराणे त्रिशक्तिमाहात्म्ये महिषासुरवधो नाम
पञ्चनवतितमोऽध्याये श्रीवैष्णवीस्तुतिः सम्पूर्णा ।
वराहपुराण । अध्याय ९५/५१-६१॥
varAhapurANa . adhyAya 95/51-61..
Encoded and proofread by June