श्रीवैन्यास्तोत्रम्
%६४
वैन्यार्तिहाभया सिन्धुः पातु पापविनाशिनी ।
दैन्याधिहा दयासिन्धुर्जन्तुतापविनाशिनी ॥ १॥
वैन्याख्यभक्तेन समाहृतेयं नदी यद्यश ईशमेयम् ।
ध्येयं महद्भिः कविभिश्च गेयं पेयं पयोऽस्या प्रपुनाति सेयम् ॥ २॥
अये वैन्ये धन्ये सुकृतिजनमान्ये जय महा-
रयेऽजन्ये दैन्येर्तिहृदसि वदान्ये त्वमघहा ॥
महाभङ्गे गङ्गेव नृदुरितभङ्गेह भवती
सती मत्र्योऽमत्र्योऽपि यदमृतपानेन भवति ॥ ३॥
वैन्याख्यगङ्गे जनतापभङ्गे प्रसीद मे देवि महातरङ्गे ।
पुनीहि मां सागस आर्तबन्धो बन्धोच्छिदे ते सरिते नमोऽस्तु ॥ ४॥
वैन्ये दैन्यहृते नमोऽस्तु सरिते वेनाहृते सन्मते ॥
सर्वं मानसिकं च वाचिकमघं द्राक्कायिकं मे हर ॥
बाह्याभ्यान्तरशुद्धिकृत्त्वमसि यत्तन्मेऽम्ब दुर्वासना-
मुन्मूल्यार्पय पापतापशमनी श्रीदेवि सद्वासनाम् ॥ ५॥
वेणुवादनरताच्युताञ्चिता या पुरी पुरजितापि रञ्जिता ।
सन्ति यत्र विबुधा अनेकशः सन्ति विप्रसदनानि भूरिशः ॥ ६॥
तस्यां पद्मावतीपुर्यां वैन्यासंज्ञा महाधुनी ।
मधुनीरा विजयते जयतेजोयशप्रदा ॥ ७॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीवैन्यास्तोत्रं सम्पूर्णम् ।