वज्रदेवीस्तोत्रम्
ॐ नमः श्रीयोगिनीदेव्यै ।
डाकी या सर्वबुद्धा सकलभयहरा व्यापिनी विश्वमाता
एकास्या रक्तवर्णा त्रिनयनमुदिता खेचरी श्रेष्ठशोभा ।
प्रज्वाली दिव्यदेहा गगणकृतपदा द्विभुजा मुक्तकेशा
खट्वाङ्गं वामपाणौ दहिनकरतिकाधारिणी स्वर्गरूपा ॥ १॥
नग्नाङ्गा ग्रीवमाल्या नरशिरसहिता भूषणं पञ्चमुद्रा
सत्त्वानां मार्गमोक्षाऽनुत्तरवरदा ज्ञानसिद्धिप्रदाता (त्री) ।
श्रीदेवी प्राणिरक्षाकृतजगतहिता योगिनी वज्रदीप्ति-
स्त्वत्पादौ पद्मरूपौ प्रणमितशिरसा नौमि विद्याधरीशे ॥ २॥
भगवती महादेवी भवत्याः शरणं वज्रे ।
वन्दे पादाम्बुजे नित्यं भजामि त्वां प्रसीद मे ॥ ३॥
जननी सर्वबुद्धानां त्वमेव बोधिदायिनी ।
सर्वेषां बोधिसत्त्वानां माता हितानुपालिनी ॥ ४॥
सर्वहितार्थसम्भर्त्री सर्वपापविशोधिनी ।
दुष्टमारगणान् क्षोभ्य महानन्दसुखप्रदा ॥ ५॥
सद्धर्मसाधनोत्साहे बलवीर्यगुणप्रदा ।
निःक्लेशस्तिमितध्यानसमाधिसुखदायिनी ॥ ६॥
प्रज्ञागुणमहारत्नश्रीसमृद्धिप्रदायिनी ।
भगवत्याः पदाम्भोजे शरणस्थो भजाम्यहम् ॥ ७॥
नमामि वज्रवाराहीं सर्वपापप्रमोचनीम् ।
मारविध्वंसिनीं देवीं बुद्धत्वफलदायिनीम् ॥ ८॥
नौमि श्रीवज्रवाराहीं मन्त्रमूर्तिं जिनेश्वरीम् ।
अत्यन्तवरदां देवीं ऋद्धिसिद्धिवरप्रदाम् ॥ ९॥
वैरोचनकुलोद्भूतां मुक्तकेशीं त्रिलोचनाम् ।
सन्ध्यासिन्दूरवर्णाभां वन्दे त्वां कुलिशेश्वरीम् ॥ १०॥
पञ्चमुद्रशिरःशोभां स्कन्धे खट्वाङ्गधारिणीम् ।
करे वज्रकरोटस्थां वन्दे वज्रविलासिनीम् ॥ ११॥
मुद्रापञ्चधरां देहे मुण्डमालाविभूषिताम् ।
लीलाहास्यमुखाम्भोजां वन्दे त्रैलोक्यसुन्दरीम् ॥ १२॥
भैरवाद्यां त्रिमुखीं च विक्रान्तिकण्ठचर्चिकाम् ।
विद्वेषघनघोरां च वन्दे भीमभयङ्करीम् ॥ १३॥
रागविरागयोर्मध्ये भावाभावविखण्डिताम् ।
समुद्भूतां सदा देवीं वन्दे तां ज्ञानडाकिनीम् ॥ १४॥
पञ्चामृतसुरापानपञ्चशालिसुभोजिनीम् ।
गीतवाद्यरतां नित्यं वन्दे त्वां सुरवन्दिताम् ॥ १५॥
सदैव सहजानन्दां नित्यभूतां सर्वालयाम् ।
रणच्चरणनूपुर्यां वन्दे नृत्यपरायणाम् ॥ १६॥
त्वां देवीं सिद्धिदात्रीं च योगाचारसदारताम् ।
बुद्धनिर्वाणदात्रीं त्वां वन्दे बुद्धस्य मातरम् ॥ १७॥
रक्ताङ्गीं वज्रवाराहीं दिव्यरूपस्वरूपिणीम् ।
क्रान्तिमूर्तिदयादेवीं नमामि वज्रयोगिनीम् ॥ १८॥
बन्धूकपुष्पसङ्काशां शान्तरूपां जिनेश्वरीम् ।
ऋद्धिसिद्धिप्रदां देवीं नमामि वज्रयोगिनीम् ॥ १९॥
द्वादशवर्षसम्पन्नां नवनृत्यस्वरूपिणीम् ।
त्रैलोक्यव्यापिनीं देवीं नमामि वज्रयोगिनीम् ॥ २०॥
इति श्रीनागार्जुनपादाचार्यविरचितं वज्रदेवीस्तोत्रं सम्पूर्णम् ॥