श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचम्

श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचम्

ॐ श्रीगणेशाय नमः । श्रीदेव्युवाच - अधुना देवदेवेश कवचं वज्रपञ्जरम् । काल्याः कृपाकटाक्षोर्मि किमीरितदृशोद्भवम् ॥ १॥ श्रीईश्वर उवाच - श‍ृणु देवि प्रवक्ष्यामि तवाग्रे कवचोत्तमम् । यस्मिन्कृते भवति श्रीकालीतनयो नरः ॥ २॥ विनामुना न सिद्धः स्याद्दक्षिणा दक्षिणानना । अतः कवचिना भाव्यं साधकेन्द्रेण सिद्धये ॥ ३॥ ऋषिरस्य स्मृतः शम्भुच्छन्दः प्राकृतिरुत्तमम् । देवता दक्षिणां ध्यात्वा कलीं प्रत्यक्षरं न्यसेत् ॥ ४॥ अम्भोदश्यामलाङ्गीमतिविकटदतीं लोलजिह्वां जटालां मुण्डं वामे दधानां करकमलतले दक्षिणे चन्द्रहासम् । सृक्कि द्वन्द्वसुधाधरमुखकमलां प्रेतदो वल्लिकाञ्चीं मार्द्वीकोन्मत्तनेत्रां शवस्पदयगतां नौमि कालीं सकालाम् ॥ ५॥ (शिवहृदयगतां ?) क्रीं बीजं मूर्ध्नि गण्डद्वितयमनु पुनस्तद्द्वयं ह्रूं द्वयं यः नेत्रद्वन्द्वे च लज्जायुगलमपि पुनः कर्णयोर्विन्यसेच्च । नासाद्वन्द्वे च रक्षेद्रदनरसनयोः कालिकादन्तपङ्क्तौ लिङ्गे भूस्यद्गुदे च त्रितयमपि पुनर्बीजमाद्यं न्यसेच्च ॥ ६॥ बाहुद्वन्द्वे च ह्रं ह्रं चरणयुगलके शक्तिबीजद्वयं च स्वाहा सर्वत्र देहे विषदतरमतिर्विन्यसेद्व्यापके च । एवं न्यासं विधाय त्रिभुवनवलयाख्यातकीर्तिः कवीन्द्रो वज्राङ्गो जीवलोके जयति वहुधनः साधकः सिद्धमन्त्रः ॥ ७॥ क्रीं क्रीं क्रीं देवि हूं हूं (ह्रं ह्रं ?) कह कह कह हे देवी ह्रं ह्रं ह हां हा दं दं दं दक्षिणे त्वां क क क क कलिते कालिके कालपत्नि । क्रीं क्रीं क्रीं योनि ह्रं ह्रं ह ह ह सहिते कालि ह्रीं ह्रीं हरेशे स्वाहे स्वाहेशनेत्रे भ भ भ भ भवती भूतयो वो भवन्तु ॥ ८॥ भूतप्रेतपिशाचपन्नगपरप्रत्यर्थिसेनाभये रण्ये रण्यतरक्षु भीषु च तथा चान्यासु भीषु स्फुटम् । स्मृत्वैवं मनुमुत्तमं गतभयो जायेत वीरोत्तमो वीरं चापि च साधयेदनु मनुं स्वान्ते दधत्साधकः ॥ ९॥ इति श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचं सम्पूर्णम् ।
% Text title            : Kalika Kavacham Vajrapanjarakakhyam
% File name             : vajrapanjarAkhyakAlIkavacham.itx
% itxtitle              : kAlikAkavacham vajrapanjarkAkhyam
% engtitle              : vajrapanjarakAkhya kAlika kavacham
% Category              : devii, kavacha, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : June 5, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org