वज्रविलासिनीस्तोत्रम्
ॐ नमः श्रीवज्रयोगिन्यै ।
देवासुरनरवन्दितचरणे भवमग्नोद्धरणार्पितचरणे ।
त्वयि रोदिमि नुतिसव्यपदेशः किं पश्यसि पुनरनिशमशेषम् ॥ १॥
मातर्देवि किरसि कणमुष्टिं जनयद् यज्ञसुतः किमतुष्टिम् ।
वज्रवाराहि नराहिसुराणां त्वं शरणं तव नामपराणाम् ॥ २॥
हरिकर(रि)शिखिफणितस्करभीतिस्त्वत्परचित्ते नैव समेति ।
मातर्देवि निभालय मह्यं किं सहसे मम दुःखमसह्यम् ॥ ३॥
तर्जनवज्रकरोट(वि)धारिणि दुष्टं तुष्टय मारनिवारिणि ।
अभिनवकोमलकरचरणाङ्गि त्रिवलिसमुच्छदसप्तविभङ्गि ॥ ४॥
ग्राह्यग्राहकभावविशुद्धे पादकराङ्गुलिजालपिनद्धे ।
आयतपार्श्वाङ्गुलिकरचरणे ध्वस्तव्याधिजराजनिमरणे ॥ ५॥
उद्गतरेणुरूर्ध्वगतरोमा वज्रयोगविवृतामृतधामा ।
बालमरीचिविलोकनरक्ते जगतां दुःखनिराकृतिशक्ते ॥ ६॥
सुभ्रु तनूदरि मध्यकृशाङ्गि कर्णान्तायतलोचनभृङ्गि(भङ्गि) ।
डाकिन्ये (व हि) विश्वमशेषं लोको वेत्ति न ते बहुवेषम् ॥ ७॥
यत्नमृते जगदर्थसमृद्धिश्चिन्तितमात्रजनेप्सितसिद्धिः ।
मूढो वेत्ति न दुष्कृतकर्म प्रावृषीव न शिलाङ्कुरजन्म ॥ ८॥
अन्ध इवार्कशशाङ्कादर्शी पापजनो ह्यनुभावस्पर्शी ।
चिन्तामणिमज्ञा न विदन्ति प्रज्ञे त्वस्य फलानि फलन्ति ॥ ९॥
चक्राङ्कितकरपादमनोज्ञे ज्ञानानलभस्मीकृतसङ्गे ।
कायवचनमनसा कृतदुरितं रागद्वेषमोहपरिकरि(लि)तम् ॥ १०॥
तद्दिशामि तव देवि समक्षं यावद्यामि न दुर्गतिपक्षम् ।
मनः परमार्थं तनुस्तव वेदी स भवति नैव दुरितपरिखेदी ॥ ११॥
लक्षणनिखिलालक्षितगात्रे सकलानुव्यञ्जनगतपात्रे ।
नवयौवनमदमन्थरपिण्डे चलकुण्डलयुगमण्डितगण्डे ॥ १२॥
तुङ्गनितम्बघनस्तनभारे गलकालम्बिनिरंशुक(ङ्कुश)हारे ।
संवरमधुपविचुम्बिमुखाब्जे तद्भुजयुगपरिरब्धहृदब्जे ॥ १३॥
निर्भरसुरतसुखाविकलाक्षि मुक्तशिरोरुहवसननिरपेक्षे ।
हेरुकराहुदष्टमुखचन्द्रे सस्मितरचित हूं हूं कृतमन्त्रे ॥ १४॥
पतिमौलिस्थितविधुममृषन्ती किमु चन्द्रार्कौ वपु(र)मुषन्ती ।
मातस्ते जगदनुपमरूपं तद्विचारय परमार्थ स(स्व)रूपम् ॥ १५॥
क्लेशदाहिं(ह)शमनामृतवचनं तद्विनेयजनशुद्धिविरचनम् ।
पद्मिनीति नलिनामलगन्धः करुणापरजगदर्थनिबन्धः ॥ १६॥
दिव्यसुधाधर(गत)रसपानं तज्जगदद्वयबोधिनिधानम् ।
प्रत्यङ्गस्पर्शोऽप्यनिमित्तं सहजाम्बुधिविप्लावितचित्तम् ॥ १७॥
किं त्वं मातः करिष्यसि ताभिः षट्त्रिंशच्छतकोट्यबलाभिः ।
यद्यन्यां मनुते बहुतातस्तद्विहाय झगिति देहि नु मातः ॥ १८॥
नाडीचक्रनिरोध ---\----------- महासुखसंवर ।
देवि त्वं शतभावविकल्पा शून्यसमाधिरपाकृततुल्या (तल्पा) ॥ १९॥
शून्यकृपे सहजाद्वयमुक्तं वज्राय(ज्रया)नमिदमवधि(वि)भक्तम् ।
भावाभावसमस्ताकाशव्यापी भवति स तत्त्वविकाशः ॥ २०॥
उद्भवन्ति तत एव विमोक्षा बोधिपक्षनिखिलप्रतिपक्षाः ।
बुद्धानामावेणिकधर्मः सत्त्वराशिपरिपाचितकर्मः ॥ २१॥
यद्वा यानत्रयनिर्याणं धूमादिकमपि चापरिमाणम् ।
त्वद्भक्त्या यदलम्भि शुभं मे भवतु मनो भवतीपरमं मे ।
सकलकलुषरहितं गुणसिन्धुस्त्वत्परमं ह्यत एव न बन्धुः ॥ २२॥
गुह्यसमयसाधनतन्त्रे श्रीवज्रविलासिनीस्तोत्रं सम्पूर्णम् ।
इति महापण्डितविभूतिचन्द्रपादकृतं वज्रविलासिनीस्तोत्रं सम्पूर्णम् ॥