वज्रयोगिनीप्रणामैकविशिका
ॐ नमः श्रीवज्रयोगिन्यै ।
एवङ्कारसमासीना(ने) सहजानन्दरूपिणि ।
प्रज्ञा(वि)ज्ञानदेहस्था (स्थे) नमस्ते वज्रयोगिनि ॥ १॥
विचित्रादिप्रमो(भे)देन चतुरानन्ददेहदे ।
रागपारमिताप्राप्ते नमस्ते वज्रयोगिनि ॥ २॥
शरत्पूर्णेन्दुसङ्काशे सत्त्वजाष्टकयोगजे ।
वर्णाग्रबीजसम्भूते नमस्ते वज्रयोगिनि ॥ ३॥
भावाभावद्वयातीते आद्यन्तमध्यवर्जिते ।
स्वपरत्वविनिर्मुक्ते नमस्ते वज्रयोगिनि ॥ ४॥
रागारागयोर्मिश्रं(श्रे) सङ्कल्पत्रयवर्जितं(ते) ।
महासुखसुखकारे नमस्ते वज्रयोगिनि ॥ ५॥
सत्त्वार्थकरणैर्युक्ते जातसम्भोगरूपिणि ।
करुणारक्तदेहस्ते(स्थे) नमस्ते वज्रयोगिनि ॥ ६॥
भवनिर्वाणमारूढे रूपाकारविराजिते ।
कायवाकचित्तनेत्राय(द्ये) नमस्ते वज्रयोगिनि ॥ ७॥
वामे कपालखट्वाङ्गे दक्षिणे कर्तिधारिणि ।
शून्यताकरुणावाहि नमस्ते वज्रयोगिनि ॥ ८॥
जिनदुर्दान्तबीभत्सि(त्से) सर्वमारनिषूदिनि ।
निर्जिताशेषसेवाग्रे नमस्ते वज्रयोगिनि ॥ ९॥
कला(कलाप)संयुक्ते श्मशानाष्टनिवासिनि ।
बुद्धनाटरसैर्युक्ते नमस्ते वज्रयोगिनि ॥ १०॥
सत्त्वाशयवशेनैव निर्मितानेकरूपिणो (णि) ।
श्यामपीतसिताभासे नमस्ते वज्रयोगिनि ॥ ११॥
पञ्चबुद्धजनोत्पन्ने पञ्चयोगिनितां गते ।
तथा परमाणुसङ्ख्याते नमस्ते वज्रयोगिनि ॥ १२॥
शैवे शक्तिरिति ख्याते तीर्थे चण्डीति कल्पिते ।
वेदे वेदेति प्रख्याते नमस्ते वज्रयोगिनि ॥ १३॥
कुलाख्ये कुब्जिकाख्याते आत्मवेषवती मते ।
विश्वरूपे क्रियाकारे नमस्ते वज्रयोगिनि ॥ १४॥
सत्त्वदृष्टिविरोधेन गता नैव विधायिनि ।
सर्वाकारवरोपेते नमस्ते वज्रयोगिनि ॥ १५॥
नैरात्म्यधर्मगम्भीरयोगदृष्ट्यैकगोचरे ।
सदसत्कल्पनातीते नमस्ते वज्रयोगिनि ॥ १६॥
श्यामपीतादिनिर्मुक्ते वर्णावर्णविवर्जिते ।
प्रज्ञापारमितामातर्नमस्ते वज्रयोगिनि ॥ १७॥
निर्विकल्पे निरालम्बे निष्प्रपञ्चे निरालये ।
वियद्वयापि(नि) नैरात्म्ये नमस्ते वज्रयोगिनि ॥ १८॥
सर्वरत्नविदां पात्रे जननि वज्रयोगिनि ।
नमस्ते वज्रवाराहि नमस्ते वज्रयोगिनि ॥ १९॥
त्वं सद्गुरुमुखकमलान्निर्गता कामरूपिणी ।
महाऽज्ञानविनाशाय नमस्ते वज्रयोगिनि ॥ २०॥
इति गुणयुक्ताया मातुर्विधायैकविंशिकाम् ।
पुण्यं यदवाप्तं तेन जनाः सन्तु(लभन्तु) पूर्णत्वम् ॥ २१॥
इति श्रीवज्रयोगिनीप्रणामैकविंशिका समाप्ता ॥