वज्रयोगिन्याः पिण्डार्थस्तुतिः
ॐ नमो वज्रयोगिन्यै ।
ॐ नमो बुद्धधर्मसङ्घेभ्यः ।
ॐ नमो गुरुबुद्धबोधिसत्त्वेभ्यः ।
ॐ नमो लोचनादिदशवज्रविलासिनीभ्यः ।
नमो यमान्तकादिदशक्रोढ(ध) वीरेभ्यः ।
वाराही शौण्डिनी चैव चण्डाली डोम्बिनी तथा ।
नटनी रजकी ब्राह्मी कपालिनी च सास(शाश्व) ता ॥ १॥
अमृताऽमृतकुण्डली च ज्ञानज्योतिःप्रकाशिका ।
सर्वाशावीरदेवीनामियमेका महासुखा ॥ २॥
शून्यता गीयते चासौ पराशक्तिः परात्परा ।
अमृतोर्ध्वमना दिव्या उपाया नित्यवाहिनी ॥ ३॥
खेचरी भूचरी चैव पातालवासिनी तथा ।
प्रवि(ति)ष्ठापूरणी नित्यं त्रैलोक्यक्षोभती(भिणी) तथा ॥ ४॥
बिन्दुनादकला देवी चन्द्रसूर्यात्मिका हि सा
(नित्या) नैर्माणिकी चैव सम्भागी च महासुखा ॥ ५॥
बिन्दुनादकलातीता प्रज्ञापारमिता मता ।
सर्वभावस्वभावा हि सर्वभावविवर्जिता ॥ ६॥
प्रलयोत्पत्तिहीना च प्रलयोत्पत्तिकारिणी ।
शाश्वतत्वात् स्थिता प्रोक्ता शाश्वतेन च वर्जिता ॥ ७॥
गम्भीरालिङ्गितोदारा महार्था स्वधिमुक्तिका ।
शून्यतात्रयहीना च प्रभास्वरस्वरूपिणी ॥ ८॥
एकाराक्षररूपा च वङ्काराक्षरसङ्गता ।
विचित्रादिक्षणैर्युक्ता चतुरानन्दरूपिणी ॥ ९॥
बाह्यमण्डलचक्रेऽपि स्फुरन्ती च त्रिकायतः ।
कायवाकचित्तभावेषु कायवाकचित्तभूषणी ॥ १०॥
अतीत्य कायवाकचित्तैः समत्वेन च मध्यगा ।
नैरात्म्यरूपिणी देवी तथतायां प्रतिष्ठिता ॥ ११॥
कमलकुलिशाक्रान्तशून्यतात्रयरूपिणी ।
ललनारसनायोगादवधूती महासुखा ॥ १२॥
संसारतारणी चैषां तथा तासां प्रतीत्यजा ।
यां लब्ध्वा योगिनीं मुक्ता भवसंसारबन्धनात् ॥ १३॥
इत्येषा ऋद्धिदा प्रोक्ता सिद्धिदा चैव योगिनी ।
मोक्षद्वारपरा चैव सतताभ्यासकारिणाम् ॥ १४॥
वज्रवत् कुरुते देहं रससिद्धिं ददाति च ।
गुरुपादप्रसादेन लब्धेयं वज्रयोगिनी ॥ १५॥
य(ए) तस्याः पाठमात्रेण पुण्यसम्भारमादरात् ।
प्राप्नोति सततं योगी ज्ञानसम्भारसम्भृतः ॥ १६॥
इति श्रीगुह्यसमयतन्त्रे पिण्डार्थाः सिद्धाचार्यश्रीविरूपादलृता
षोडशश्लोकास्त्रिकायवज्रयोगिन्याः पिण्डार्थस्तुतिः समाप्ताः ।