वसुधारानामधारणीस्तोत्रम्
ॐ नमो
भगवत्यै आर्यश्रीवसुधारायै ।
दिव्यरूपी सुरूपी च सौम्यरूपी बलप्रदा । (वरप्रदा)
वसुधरी वसुधारणी वसुश्री श्रीकरी वरा ॥ १॥
धरणी धारणी धाता शरण्या भक्तवत्सला ।
प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी ॥ २॥
विद्याधरी शिवा सूक्ष्मा शास्ता सर्वत्र मातृका । (शान्ता)
तरुणी तारु(र)णी देवी विद्यादानेश्वरेश्वरी ॥ ३॥
भूषिता भूतमाता च सर्वाभरणभूषिता ।
दुर्दान्तत्रासनी भीता उग्रा उग्रपराक्रमा ॥ ४॥ (दुर्दान्तवासिनी भीमा)
दानपारमिता देवी वर्षणी दिव्यरूपिणी ।
निधानं सर्वमाङ्गल्या कीर्तिर्लक्ष्मीर्यशःशुभा ॥ ५॥ (यशस्विनी)
दहनी मालिनी चण्डी शबरी सर्वमात्रिका ।
कृतान्तशासनी रौद्री कौमारी विश्वरूपिणी ॥ ६॥
वीर्यपारमिता देवी जगदानन्दरोचनी ।
तापसी उग्ररूपी च ऋद्धिसिद्धिबलप्रदा ॥ ७॥
धन्या पुण्या महाभागा अजिता जितविक्रमा ।
जगदेकहिता विद्या सङ्ग्रामे तारणी शुभा ॥ ८॥
क्षान्तिपारमिता देवी शीलिनी ध्यानध्यायिनो ।
पद्मिनी पद्मधारी च पद्मप्रिया पद्मासनी ॥ ९॥
शुद्धरूपी महातेजा हेमवर्णा प्रभाकरी ।
चिन्तामणिमहादेवी प्रज्ञापुस्तकधारिणी ॥ १०॥
निधानं कूटिमारुढिधन्यागारधनप्रिया ।
त्रैधातुकं महा आदि दिव्याभरणभूषिणी ॥ ११॥
मातरी सर्वबुद्धानां रत्नधाते(त्वी)श्वरेश्वरी ।
शून्यता भावनी देवी भावाभावविवर्जिता ॥ १२॥
वैन्ये(ने)य किं न विन्यस्ता दिव्यक्लेशनिछेदनी ।
भी(भे) दिनी सर्वमाराणां सप्तपातालक्षोभिनी (णी) ॥ १३॥
ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी ।
सरस्वती विशालाक्षी चतुर्ब्रह्मविहारिणी ॥ १४॥
ताथागती महारम्या वज्रिणी धर्मधारिणी ।
कर्मधातेश्वरी विद्या विश्वज्वालाभमण्डली ॥ १५॥
बोध(धि)नी सर्वसत्त्वानां बोध्यङ्गकृतशेखरी ।
ध्याना धीर्मुक्तिसम्पन्ना अद्वयद्वयभाविनी ॥ १६॥
सर्वार्थसाधनी भद्रा स्त्रीरूपामितविक्रमा ।
दर्शिनी बुद्धमार्गाणां नष्टमार्गप्रदर्शिनी ॥ १७॥
वागीश्वरी महाशान्तिर्गोप्त्री धात्री धनप्रदा ।
स्त्रीरूपधारिणी सिद्धा योगिनी योगजेश्वरी ॥ १८॥
मनोहरी महाक्रान्तिः सौभाग्यप्रियदर्शिनी ।
सार्थवाहकृपादृष्टिः सर्वताथागतात्मकी ॥ १९॥
नमस्तेऽस्तु महादेवी सर्वसत्त्वार्थदायिनी ।
नमस्ते दिव्यरूपी च वसुधारा नमोऽस्तु ते ॥ २०॥
अष्टोत्तरशतं नाम त्रिकालं यं पठेत् पुमान् ।
प्राप्नोति नियतं सिद्धिमीप्सितार्थमनोरथान् ॥ २१॥
यदज्ञानकृतं पापमानन्तर्यसुदारुणम् ।
तत्सर्वं क्षपयत्याशु स्मरणात् स(र्व)भद्रकम् ॥ २२॥
अथवा शीलसम्पन्नः सप्तजातिस्मरो भवेत् ।
प्रियश्चादेयवाक्येन रूपवान् प्रियदर्शनः ॥ २३॥
विप्रक्षत्रियकुलेषु आदेयमुपजायते ।
अन्ते भूमीश्वरं प्राप्तः पश्चात् प्राप्त(ः) सुखावतीम् ॥ २४॥
इति श्रीवसुधारानामधारणीस्तोत्रं सम्यक्सम्बुद्धभाषितं सम्पूर्णम् ॥
वसुन्धरास्तोत्रम्