विष्णुना योगमायायै प्रोक्तं आदेशम्
श्रीभगवानुवाच ।
त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः ।
लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ५, १.८३॥
ये त्वामार्येति दुर्गेति वेदगर्भाम्बिकेति च ।
भद्रेति भद्रकालीति क्षेमदा भाग्यदेति च ॥ ५, १.८४॥
प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ५, १.८५॥
सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता ।
नृणामशेषकामांस्त्वं प्रसन्ना सम्प्रदास्यसि ॥ ५, १.८६॥
ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् ।
असन्दिग्धा भविष्यन्ति गच्छ देवि यथोदितम् ।
इति विष्णुपुराणे पञ्चमांशे प्रथमाध्यायान्तर्गतं
विष्णुना योगमायायै प्रोक्तं आदेशं समाप्तम् ।
This is Vishnu ordering YogamAya to shift the
child from the womb of Devaki to that of RohiNi .
विष्णुपुराण । अध्याय ६/१/८३-८६॥
viShNupurANa . adhyAya 6/1/83-86..
Proofread by PSA Easwaran