विन्ध्यवासिनीस्तोत्रम्
श्रीगणेशाय नमः ।
श्रीनन्दगोपगृहिणीप्रभवा तनोतु
भद्रं सदा मम सुरार्थपरा प्रसन्ना ।
विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा
सिद्धैः सुसेवित-पदाब्जयुगा त्रिरूपा ॥ १॥
वेदैरगम्यमहिमा निजबोधतुष्टा
नित्या गुणत्रयपराऽखिलभेदशून्या ।
एका प्रपञ्चकरणे त्रिगुणोरुशक्ति-
रुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ २॥
पीयूष-सिन्धु-सुरपादपवाटिरत्न-
द्वीपे सुनीपवनशालिनि दुष्प्रवेशे ।
चिन्तामणि-प्रखचिते भवने निषण्णा
विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ ३॥
श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता
नारायणेन सबलौ मधुकैटभाख्यौ ।
या सञ्जहार जगतां प्रलये तथा सा
विन्ध्येश्वरी वितनुतां सुमनोरथान्मे ॥ ४॥
ब्रह्मेशविष्णु-पुरुहूत-हुताशनादि-
तेजोभवा महिषपीडित-निर्जराणाम् ।
स्थानाप्तयेऽतिकृपया महिषं ममर्द
विन्ध्येश्वरी हरतु रोगविपत्तिमाशु ॥ ५॥
या धूम्रचण्ड-बलिमुण्ड-निशुम्भ-शुम्भ-
रक्तान्पिपेष सुरकार्यरताप्यनेका ।
दुःखाम्बुधौ निपतितस्य विमूढबुद्धे-
र्विन्ध्येश्वरी मम ददातु सुबुद्धिमम्बा ॥ ६॥
या दुर्गमं दनुभवं परिमर्द्य नाम्ना
दुर्गा बभूव च ततान शुभं सुराणाम् ।
स्वाचारकर्म-विमुखस्य जुगुप्सितस्य
विन्ध्येश्वरी दहतु वैरिगणान्समस्तान् ॥ ७॥
सम्प्राप्य जन्म वपुषः परिपोषणाय
संख्यातिग-वृजिन-पुञ्जविधायिनो मे ।
चण्डासुरप्रमथिनी ललिता च नाम्ना
विन्ध्येश्वरी हरतु जाड्यमहान्धकारम् ॥ ८॥
या तारयत्यखिल-दुष्कृतिलोकपुञ्जात्-
तारे'ति नाम गदिता भुवनेषु देवी ।
अज्ञानसिन्धुतरणे दृढनौस्वरूपा
विन्ध्येश्वरी मम गुणाग्र्यसुतं ददातु ॥ ९॥
रक्ताम्बरा तरुणभानुरुचिः प्रसन्ना
रक्ताम्बुजासन-कृतांघ्रियुगा धृतास्त्रा ।
रक्तैः स्वलङ्कृत-तनुर्मणिभूषणैश्च
विन्ध्येश्वरी मम गिरं विशदां करोतु ॥ १०॥
रात्रीशकान्त-मणिकान्त-तनुर्विशाल-
मुक्तालता-ललितवृत्तकुचा कृशाङ्गी ।
श्वेताम्बरा सितसरोजकृताधिवासा
विन्ध्येश्वरी मम वचांसि पुनातु नित्यम् ॥ ११॥
आकर्ण्य दीनवचनं जननीव देवी
पुत्रस्य मे सपदि सर्वगदान् जहार ।
लेखाङ्गनामुकुट-गुम्फित-चित्रपुष्प-
रेणूत्करार्चित-पदाग्र नखांशुचन्द्रा ॥ १२॥
देवान्विहाय सकलानथ कर्म सर्वं
लब्ध्वा जनुर्न कृतवांस्तव देवि! पूजाम् ।
मातर्नमामि सततं मनसा च वाचा
देहेन पादकमलं शरणागतोऽहम् ॥ १३॥
देहीष्टमाशु विपुलं निजसेवकेभ्यो
दारिद्र्यमम्ब हर चारिवधं कुरुष्व ।
शान्तिं च सर्वजगतां विशदां च बुद्धिं
त्वं पालयातिकृपया चरणाब्जगं माम् ॥ १४॥
देव्याः स्तवं पठति यः शिवदं मनुष्यः
पूतः शृणोति च मनो विविधैरभीष्टैः ।
पूर्णं हि तस्य भवति प्रसभं गदाश्च
यान्ति क्षयं झटिति वायुकफानिलोत्थाः ॥ १५॥
त्र्यर्ष्यष्टभूमिमित-सर्वजिदाख्यवर्षे
ईषे च मासि सितपक्षयुते कवीशः ।
स्तोत्रं लिलेख मथुरेश्वरमालवीयः
सन्नाहमोचनभवो विधुरुद्रशम्याम् ॥ १६॥
॥ इति श्रीमन्मालवीय-शुक्लमथुरानाथविरचितं
विन्ध्यवासिनीस्तोत्रं सम्पूर्णम् ॥
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com