विशालाक्षीस्तोत्रम् व्यासकृतम्
(सौरपुराणे अष्टमाध्यायान्तर्गतम्)
व्यास उवाच-
विशालाक्षि नमस्तुभ्यं परब्रह्मात्मिके शिवे ।
त्वमेव माता सर्वेषां ब्रह्मादीनां दिवौकसाम् ॥ १५॥
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्वमेव हि ।
ऋज्वी कुण्डलिनी सुक्ष्मा योगसिद्धिप्रदायिनी ॥ १६॥
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती ।
सती दाक्षायणी विद्या सर्वशक्तिमयी शिवा ॥ १७॥
अपर्णा चैकपर्णा च तथा चैकैकपाटला ।
उमा हैमवती चापि कल्याणी चैव मातृका ॥ १८॥
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता ।
गणाम्बिको महादेवी नन्दिनी जातवेदसी ॥ १९॥
सावित्री वरदा पुण्या पावनी लोकविश्रुता ।
आयती नियती रौद्री दुर्गा भद्रा प्रमाथिनी ॥ २०॥
कालरात्री महामाया रेवती भूतनायिका ।
गौतमी कौशिकी चाऽऽर्था चण्डी कात्यायनी सती ॥ २१॥
वृषध्वजा शूलधरा परमा ब्रह्मचारिणी ।
महेन्द्रोपेन्द्रमाता च पार्वती सिंहवाहना ॥ २२॥
एवं स्तुत्वा विशालाक्षी दिव्यैरेतैः सुनामभिः ।
कृतकृत्योऽभवद्व्यासो वाराणस्यां द्विजोत्तमाः ॥ २३॥
वाराणस्यां विशालाक्षी गङ्गा विश्वेश्वरः शिवः ।
भक्तिः पशुपतौ तत्र दुर्लभं हि चतुष्टयम् ॥ २४॥
यः पश्यति विशालाक्षीं स्नात्वा गङ्गाम्भसि द्विजाः ।
अश्वमेधसहस्रस्य फलमाप्नोत्यनुत्तमम् ॥ २५॥
वाराणस्यारतु माहात्म्यमिति किञ्चिन्मयोदितम् ।
यः पठेच्छृणुयाद्वाऽपि याति माहेश्वरं पदम् ॥ २६॥
इति सौरपुराणे अष्टमाध्यायान्तर्गतं व्यासकृतं
विशालाक्षीस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran