नवरत्नयमुनाष्टकस्तोत्रम्
कदाचित्ते तीरे जननि जननी वाक्यममृतं
गृहीत्वा शुद्धत्वं ध्रुवपदमगान्मातृसहितः ।
महिम्नः श्रुत्वा ते प्रचुरतरवित्तिं ध्रुवजनः
तपस्तप्त्वा सद्यः शरणमिति यातस्तवतटम् ॥ १॥
कदाचित्ते देव्याः सकलजनुरुत्तारणपयः
विहारस्थाने वै प्रकटिततरङ्गेः पटुतरम् ।
सदा स्वस्थैर्देवैः सरलहृदयैः सेविततमं
वयं पीत्वा कुर्म्मः प्रचुरकलुषं सम्प्रति हतम् ॥ २॥
कदाचिन्मे भाग्यात्तव तरणितीरे भवहरे !
महद्वृन्दाटव्यां किमपि जननं मे भवतु वा ।
गवां रम्ये स्थाने परिरटनपाटीहरहरे !
भविष्यत्येषां वै जननिजनुषोर्भूरिमहिमा ॥ ३॥
कदाचिन्मे चित्तं हरिचरणसेवां प्रसरतु
भवद्वात्सल्याद्वै सुरमनुजभक्तैः परिचिताम् ।
सदा ते वेलायां भव कमलपुष्पैः परिहृता
इयं मे वाञ्छा स्यात्तव तट सुसेवा भवतु तवा ॥ ४॥
कदाचिन्मे मातर्मदुपरि कृपा ते सुकृतजा
भविष्यत्येषा वै तव जलतरङ्गोञ्झुलितिभीः ।
हरेः सान्द्रं रूपं मदततिघनश्यामममलं
अहं द्रक्ष्ये सौम्यं सखिजनपरीतं तब तटे ॥ ५॥
कदाचिन्मार्तण्डी विषयरसखण्डी कलुषजा
प्रचण्डी स्वावेगैर्जगदघविखण्डी स्वयशसा ।
शिवा शान्ता नित्यं तरलसरलैः शोभिततरां
ममाभीष्टं देयाद्व्रजजनसुसेवां तव तटे ॥ ६॥
कदाचित्कालिन्दी मुनिवरवरैः सेविततटी
हरे ! विष्णो ! राधे ! सुरटनपरैः कूजितकुटी ।
प्रवाहे किं शब्दैः प्रियरमणकान्तं परिरटी
किमन्यद्याञ्चाभिः प्रभवतु सदा मे भववटी ॥ ७॥
कदाचिच्छ्रीकृष्णे दृढतमकृतान् पापनिचयान्
कुरुत्वं दृष्टिं मां तव महिमनित्वं भव दृढा ।
कदा भ्रातुर्लोकं बहुतरहठो मे प्लुतजला
अतो मे मायां तां हरतु जननि प्रार्थनमिदम् ॥ ८॥
नवरत्नमिदं पुण्यं प्रातः सायं पठेन्नरः ।
हरिस्तस्मै प्रसन्नो वै ददाति फलमीप्सितम् ॥ ९॥
नवरत्नात्परं किञ्चिन्नान्यदस्ति महीतले ।
सर्ववेदेतिहासानां सारं ह्यस्मिन्नुदाहृतम् ॥ १०॥
इति श्रीमन्निम्बार्कपट्टाधिरूढश्री सर्वेश्वरशरणदेवाचार्यचरणचञ्चरीक
श्रीमन्निम्बार्कशरगदेवाचार्यविरचितनवरत्न
श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।
Proofread by Mohan Chettoor