यमुना-गीतं
गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना,
नील-तरङ्गा मनोहराङ्गी यमुना ।
नील-तरङ्गा यमुना, तरलापाङ्गा यमुना ।
गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना,
नील-तरङ्गा मनोहराङ्गी यमुना ॥ (ध्रुवम्)॥
क्रीड़ा रचिता यस्याः कूले मञ्जु-कदम्ब-तले,
कालिय-गञ्जन - जन-भयभञ्जन- हरिणा पुण्य-जले ।
कुत्र विद्यते रुचिर-पवित्रम्,
रूपं तस्या माधव-मित्रम् ।
राधामाधव-मधुमय-लीला,
विलसति भास्वर-गौर-सुनीला ।
विदग्ध-रङ्गा यमुना, व्रजान्तरङ्गा यमुना,
गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना,
नील-तरङ्गा मनोहराङ्गी यमुना ॥ १॥
भुवि कमनीयो गोप-कामिनी-मानस-हंसः कृष्णः,
कंस-विनाशी वंशी-निस्वन-सरसो भाव-सतृष्णः ।
कुत्र राजते स घनश्यामः,
तं हि साम्प्रतम् अन्विष्यामः ।
पुनर्भवेत् सा सुखदा रम्या यमुना,
दूषण-मुक्ता पावन-तोया ह्यमुना ।
गोकुल-भरणी यमुना, सुन्दर-तरणी यमुना ।
गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना,
नील-तरङ्गा मनोहराङ्गी यमुना ॥ २॥
भाति न यमुना कृष्ण-विहीना,
कृष्ण-स्मरणे हृदि तल्लीना ।
कलिन्द-कन्यां स्वनाम-धन्यां प्रणमामः,
स वन्दनीयो नन्द-नन्दनो जित-कामः ।
जितकामः, अभिरामः, यमुना-पुलिने गत-यामः ।
जितकामः, अभिरामः, वृन्दा-विपिने गत-यामः ।
पातक-शमनी यमुना, कल्मष-दहनी यमुना ।
गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना,
नील-तरङ्गा मनोहराङ्गी यमुना ।
कृष्णं यमुनां नुमो वयम्, यमुनां कृष्णं नुमो वयम् ।
नुमो वयम्, नुमो वयम्,
यमुनां कृष्णं नुमो वयम्, कृष्णं यमुनां नुमो वयम् ।
गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना,
नील-तरङ्गा मनोहराङ्गी यमुना ।
गङ्गा-सङ्गा यमुना, नील-तरङ्गा यमुना ॥ ३॥
-- गीति-रचना : डाॅ हरेकृष्ण- मेहेरः
(Composed in self-innovated original
lyrical metre, named as Yaamunam)
Copyright Dr.Harekrishna Meher