श्रीयमुनाविज्ञप्तिः
कृष्णां कृष्णसमां कृष्ण-रूपां कृष्णरसात्मिकाम् ।
कृष्णलीलामृतजलां कृष्णसम्बन्धकारिणीम् ॥ १॥
कृष्णप्रियां कृष्णमुख्यरससङ्गमदायिनीम् ।
कृष्णक्रीडाश्रयां कृष्णपदवीप्रापिकामपि ॥ २॥
कृष्णस्थितां कृष्णवासहृदयां कृष्णकामुकाम् ।
कृष्णप्रियाप्रियां कृष्णस्थायिभावसमुद्भवाम् ॥ ३॥
कृष्णैकमिलनस्थानभूतां कृष्णसुखार्थिनीम् ।
कृष्णगोपीसहचरीं कृष्णसन्मानवर्धिनीम् ॥ ४॥
कृष्णकार्यपरीं कृष्णलीलास्थलविशोधिकाम् ।
कृष्णक्रीडाकुङ्कुमादियुतां कृष्णरसान्तराम् ॥ ५॥
कृष्णगोपीपूज्यदेवीं कृष्णव्रतफलप्रदाम् ।
कृष्णलीलार्थमायान्तीं कृष्णनीरधिसङ्गताम् ॥ ६॥
कृष्णपादस्पर्शकामां कृष्णमानससंश्रिताम् ।
कृष्णासक्तां कृष्णभक्तकृष्णप्रीतिप्रसाधिनीम् ॥ ७॥
कृष्णाङ्घ्रिरेणुबहुलां कृष्णसेवकसन्मुखाम् ।
कृष्णभावाविरोधिस्वदासप्रकृतिनाशिनीम् ॥ ८॥
नमामि यमुनां कृष्णतुर्यप्रियतमामहम् ।
निजाचार्यपदाम्भोजदासे भावं प्रयच्छतु ॥ ९॥
इति श्रीहरिदासोदिता श्रीयमुनाविज्ञक्तिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com