योनिस्तोत्रम्
महादेव उवाच ।
शृणु देवि सुर-श्रेष्ठे सुरासुर नमस्कृते ।
इदानीं श्रोतुमिच्छामि स्तोत्रं हि सर्वदुर्लभम् ।
यस्यावबोधनाद्देहे देही ब्रह्ममयो भवेत् ॥ १॥
श्रीपार्वत्युवाच ।
शृणु देव सुरश्रेष्ठ सर्व-बीजस्य सम्मतम् ।
न वक्तव्यं कदाचित्तु पाखण्डे नास्तिके नरे ॥ २॥
ममैव प्राण-सर्वस्वं लतास्तोत्रं दिगम्बर ।
अस्य प्रपठनाद्देव जीवन्मुक्तोऽपि जायते ॥ ३॥
ॐ भग-रूपा जगन्माता सृष्टि-स्थिति-लयान्विता ।
दशविद्यास्वरूपात्मा योनिर्मां पातु सर्वदा ॥ ४॥
कोण-त्रय युता देवि स्तुति-निन्दा विवर्जिता ।
जगदानन्द-सम्भूता योनिर्मां पातु सर्वदा ॥ ५॥
रक्त-रूपा जगन्माता योनिमध्ये सदा स्थिता ।
ब्रह्म-विष्णु-शिव-प्राणा योनिर्मां पातु सर्वदा ॥ ६॥
कार्त्रिकी-कुन्तलं रूपं योन्युपरि सुशोभितम् ।
भुक्ति-मुक्ति-प्रदा योनिः योनिर्मां पातु सर्वदा ॥ ७॥
वीर्यरूपा शैलपुत्री मध्यस्थाने विराजिता ।
ब्रह्म-विष्णु-शिव श्रेष्ठा योनिर्मां पातु सर्वदा ॥ ८॥
योनिमध्ये महाकाली छिद्ररूपा सुशोभना ।
सुखदा मदनागारा योनिर्मां पातु सर्वदा ॥ ९॥
काल्यादि-योगिनी देवी योनिकोणेषु संस्थिता ।
मनोहरा दुःख लभ्या योनिर्मां पातु सर्वदा ॥ १०॥
सदाशिवो मेरु-रूपो योनिमध्ये वसेत् सदा ।
कैवल्यदा काममुक्ता योनिर्मां पातु सर्वदा ॥ ११॥
सर्व-देव स्तुता योनिः सर्व-देव-प्रपूजिता ।
सर्व-प्रसवकर्त्री त्वं योनिर्मां पातु सर्वदा ॥ १२॥
सर्व-तीर्थ-मयी योनिः सर्व-पाप-प्रणाशिनी ।
सर्वगेहे स्थिता योनिः योनिर्मां पातु सर्वदा ॥ १३॥
मुक्तिदा धनदा देवी सुखदा कीर्तिदा तथा ।
आरोगयदा वीर-रता पञ्च-तत्त्व-युता सदा ॥ १४॥
योनिस्तोत्रमिदं प्रोक्तं यः पठेत् योनि-सन्निधौ ।
शक्तिरूपा महादेवी तस्य गेहे सदा स्थिता ॥ १५॥
तीर्थ पर्यटनं नास्ति नास्ति पूजादि तर्पणम् ।
पुरश्चरणं नास्त्येव तस्य मुक्तिरखण्डिता ॥ १६॥
केवलं मैथुनेनैव शिव-तुल्यो न संशयः ।
सत्यं सत्यं पुनः सत्यं मम वाक्यं वृथा नहि ॥ १७॥
यदि मिथ्या मया प्रोक्ता तव हत्या-सुपातकी ।
कृताञ्जलिपुटो भूत्वा पठेत् स्तोत्रं दिगम्बर ! ॥ १८।
सर्वतीर्थेषु यत् पुण्यं लभते च स साधकः ।
काल्यादि-दश-विद्याश्च गङ्गादि-तीर्थ-कोटयः ।
योनि-दर्शन-मात्रेण सर्वाः साक्षान्न संशय ॥ १९॥
कुल-सम्भव-पूजायामादौ चान्ते पठेदिदम् ।
अन्यथा पूजनाद्देव रमणं मरणं भवेत् ॥ २०॥
एकसन्ध्यां त्रिसन्ध्यां वा पठेत् स्तोत्रमनन्यधीः ।
निशायां सम्मुखे-शक्त्याः स शिवो नात्र संशयः ॥ २१॥
इति निगमकल्पद्रुमे योनिस्तोत्रं समाप्तम् ।