श्रीऋणमोचनमहागणपतिस्तोत्रम्
अस्य श्रीऋणमोचनमहागणपतिस्तोत्रस्य शुक्राचार्य ऋषिः,
अनुष्टुप्छन्दः, श्रीऋणमोचक महागणपतिर्देवता ।
मम ऋणमोचनमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः
क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम् ।
दोर्भिः पाशाङ्कुशेष्टाभयधरमतुलं चन्द्रमौलिं त्रिणेत्रं
ध्यायेत् शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥
स्मरामि देव देवेशं वक्रतुण्डं महाबलम् ।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १॥
एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम् ।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ २॥
महागणपतिं देवं महासत्वं(महासेतुं) महाबलम् ।
महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये ॥ ३॥
(शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ।
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥४॥)
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ ४॥ (कृष्णयज्ञोपवीतं)
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ ५॥ (रक्तपुष्पैः पूज्यमानं)
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ ६॥ (पीतपुष्पैः पूज्यमानं)
धूम्राम्बरं(धूम्राक्षं) धूम्रवर्णं धूम्रगन्धानुलेपनम् ।
होम धूमप्रियं देवं नमामि ऋणमुक्तये ॥ ७॥ (धूम्रौष्पैः पूज्यमानं)
(सर्वसर्वात्मकं सर्वं वर्णं सर्वगन्धानुलेपनम् ।
सर्वपुष्पै पूज्यमानं नमामि ऋणमुक्तये ॥)
भालनेत्रं भालचन्द्रं पाशाङ्कुशधरं विभुम् ।
चामरालङ्कृतं देवं नमामि ऋणमुक्तये ॥ ८॥
इदं त्वृणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः । (त्रिसन्ध्यं यः पठेन्नरः)
षण्मासाभ्यन्तरेणैव ऋणमुक्तो भविष्यति ॥ ९॥
(षण्मासाभ्यन्तरे तस्य ऋणच्छेदो न संशयः ।
सहस्रदशकं कृत्वा ऋणमुक्तो धनी भवेत् ॥)
इति श्रीब्रह्माण्डपुराणे श्रीऋणमोचनमहागणपतिस्तोत्रं सम्पूर्णम् ।
ऋणहरस्तोत्रम्
The variations (पाठभेद) are given in parentheses.
The verse numbering differs in some prints.
Proofread by Aruna Narayanan