ब्रह्माकृता गणपतिवन्दना
(शिवरहस्यान्तर्गते ईशाख्ये)
ब्रह्मोवाच ।
देवीसुतं करधृताङ्कुशपाशदीप्तं
विघ्नाद्रिनाशकवरोदरनागबन्धम् ।
शुण्डाधृतोरुवरमोदकविघ्नसङ्घ-
सन्नोदकं प्रणमताद्य गणाधिनाथम् ॥ २५॥
जगत्त्रयेऽपि सर्वत्र त्वं हि विश्वगणेश्वरः ।
सम्पूज्यः सर्वकार्येषु निर्विघ्नार्थं गजानन ॥ २६॥
त्वामादौ सर्वकार्येषु पूजयन्तु सुरासुराः ।
अनभ्यर्चयतां विघ्नं भवत्येव पदे पदे ॥ २७॥
॥ इति शिवरहस्यान्तर्गते ब्रह्माकृता गणपतिवन्दना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १६ विधिसंविधानम् । २५-२७ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 16 vidhisaMvidhAnam . 25-27 ..
Notes:
Brahmā ब्रह्मा conducts worship of Gaṇapati गणपति as Remover of Obstacles, ahead of the Marriage Ceremony of Śiva शिव and Pārvatī पार्वती.
Proofread by Ruma Dewan