चिन्तामणिषट्पदी
चिन्तामणिषट्पदी ।
श्रीगणेशाय नमः ।
द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन ।
सदनवसादन सादनमन्तरायस्य रायस्य ॥ १॥
इन्दुकल कलितालिक सालिकशुम्भत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्य प्रपञ्चस्य ॥ २॥
परपरशुपाणिपाणे पणितपणायेः पणायितोऽसि यतः ।
आरूह्य वज्रदन्तं विदधासि विपदन्तम् ॥ ३॥
लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमान्तरायापहारिदृशा ॥ ४॥
आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ् घ्रियुग ।
सराप्रदण्डरसालो नागजभालोऽतिभासि विभो ॥ ५॥
अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय पाहि मां दीनम् ॥ ६॥
कचिरवचोऽमृतरावोन्नीता नीता दिवस्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादाम्भुजे विशतु ॥ ७॥
इति चिन्तामणिषट्पदी समाप्ता ॥
Encoded and proofread by
Karthik Chandan.P (kardan5380@yahoo.com)
Amith K Nagaraj (amithkn@rediffmail.com)