देवैः कृतं गणेशस्तोत्रम्
देवा ऊचुः ।
यः सर्वकार्येषु सदा सुराणामपीशविष्ण्वम्बुजसम्भवानाम् ।
पूज्यो नमस्यः परिचिन्तनीयस्तं विघ्नराजं शरणं व्रजामः ॥ ६॥
न विघ्नराजेन समोऽस्ति कश्चिद्देवो मनोवाञ्छितसम्प्रदाता ।
निश्चित्य चैतत्त्रिपुरान्तकोऽपि तं पूजयामास वधे पुराणाम् ॥ ७॥
करोतु सोऽस्माकमविघ्नमस्मिन्महाक्रतौ सत्वरमाम्बिकेयः ।
ध्यातेन येनाखिलदेहभाजां पूर्णा भविष्यन्ति मनोभिलाषाः ॥ ८॥
महोत्सवोऽभूदखिलस्य देव्या जातः सुतश्चिन्तितमात्र एव- ।
अतोऽवदन्सुरसङ्घाः कृतार्थाः सद्योजातं विघ्नराजं नमन्तः ॥ ९॥
यो मातुरुत्सङ्गगतोऽथ मात्रा निवार्यमाणोऽपि बलाच्च चन्द्रम् ।
सङ्गोपयामास पितुर्जटासु गणाधिनाथस्य विनोद एषः ॥ १०॥
पपौ स्तनं मातुरथापि तृप्तो यो भ्रातृमात्सर्यकषायबुद्धिः ।
लम्बोदरस्त्वं भव विघ्नराजो लम्बोदरं नाम चकार शम्भुः ॥ ११॥
संवेष्टितो देवगणैर्महेशः प्रवर्ततां नृत्यमितीत्युवाच ।
सन्तोषितो नूपुररावमात्राद्गणेश्वरत्वेऽभिषिषेच पुत्रम् ॥ १२॥
यो विघ्नपाशं च करेण बिभ्रत्स्कन्धे कुठारं च तथा परेण ।
अपूजितो विघ्नमथोऽपि मातुः करोति को विघ्नपतेः समोऽन्यः ॥ १३॥
धर्मार्थकामादिषु पूर्वपूज्यो देवासुरैः पूज्यत एव नित्यम् ।
यस्यार्चनं नैव विनाशमस्ति तं पूर्वपूज्यं प्रथमं नमामि ॥ १४॥
यस्यार्चनात्प्रार्थनयाऽनुरूपां दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ।
स्वतन्त्रसामर्थ्यकृतातिगर्वं भ्रातृप्रियं त्वाखुरथं तमीडे ॥ १५॥
यो मातरं सरसैर्नृत्यगीतैस्तथाऽभिलाषैरखिलैर्विनोदैः ।
सन्तोषयामास तदाऽतितुष्टं तं श्रीगणेशं शरणं प्रपद्ये ॥ १६॥
सुरोपकारैरसुरैश्च युद्धैः स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः ।
पितृप्रसादेन सदा समृद्धं तं श्रीगणेशं शरणं प्रपद्ये ॥ १७॥
जये पुराणामकरोत्प्रतीपं पित्राऽपि हर्षात्प्रतिपूजितो यः ।
निर्विघ्नतां चापि पुनश्चकार तस्मै गणेशाय नमस्करोमि ॥ १८॥
इति ब्रह्मपुराणे चतुर्दशाधिकशततमाध्यायान्तर्गतं
देवैः कृतं गणेशस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ११४/६-१८॥
brahmapurANa . adhyAya 114/6-18..
Proofread by PSA Easwaran