देवैः कृतं गणनाथस्तोत्रम्
देवा ऊचुः ।
नमस्ते रुद्रभक्ताय रुद्रजाप्यरताय च ॥ १५४॥
रुद्रभक्तार्तिनाशाय रौद्रकर्मरताय ते ।
कूष्माण्डगणनाथाय योगिनां पतये नमः ॥ १५५॥
सर्वदाय शरण्याय सर्वज्ञायार्तिहारिणे ।
वेदानां पतये चैव वेदवेद्याय ते नमः ॥ १५६॥
वज्रिणे वज्रदंष्ट्राय वज्रिवज्रनिवारिणे ।
वज्रालङ्कृतदेहाय वज्रिणाऽऽराधिताय ते ॥ १५७॥
रक्ताय रक्तनेत्राय रक्ताम्बरधराय ते ।
रक्तानां भवपादाब्जे रुद्रलोकप्रदायिने ॥ १५८॥
नमः सेनाधिपतये रुद्राणां पतेय नमः ।
भूतानां भुवनेशानां पतये पापहारिणे ॥ १५९॥
रुद्राय रुद्रपतये रौद्रपापहराय ते ।
नमः शिवाय सौम्याय रुद्रभक्ताय ते नमः ॥ १६०॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकसप्ततितमाध्यायान्तर्गतं
देवैः कृतं गणनाथस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ७१/१५४-१६०॥
lingapurANa . pUrvabhAga . adhyAya 71/154-160..
Proofread by PSA Easwaran