धूम्रवर्णस्तुतिः अहमसुरेण प्रोक्ता

धूम्रवर्णस्तुतिः अहमसुरेण प्रोक्ता

धूम्रवर्णस्तु तुरेण गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः । धूम्रवर्ण जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ १२॥ पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः । पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ १३॥ अहमुवाच - धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने । अव्यकायादिबीजाय परेशाय नमो नमः ॥ १४॥ लम्बोदराय देवाय दैत्यनाथाय ते नमः । हेरम्बाय महेशानां बालकाय नमो नमः ॥ १५॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे । ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥ चराय चररूपाय जङ्गमस्थाय ते नमः । स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७॥ स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः । योगाय योगनाथाय योगिने योगदायिने ॥ १८॥ योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः । शान्ताय शान्तचित्तैस्तु प्राप्याय शान्त मूर्यते ॥ १९॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद! । सिद्धिनाथाय बुद्धीश! तयोर्योगाय ते नमः ॥ २०॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१॥ किं स्तौमि त्वां गणाधीश! धूम्रवर्णस्वरूपिणम् । अव्यक्तं वेदवादेषु कथितं सततं प्रभो! ॥ २२॥ स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः । योगशान्तिधरास्ते कथयितुं ध्रुवं अक्षमाः ॥ २३॥ अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः । पश्यामि तं धूम्रवर्ण एवाऽहं योगिदुर्लभम् ॥ २४॥ धन्योऽहं सकुलो नाथ! त्वदङ्गियुगदर्शनात् । धूम्रवर्ण उवाच - त्वया कृतं इदं स्तोत्रं सर्वसिद्धिप्रदायकम् । मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८॥ श‍ृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् । न भसिष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९॥ यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः । मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३०॥ इति अहमसुरेणप्रोक्ता धूम्रवर्णस्तुतिः समाप्ता । ८.७ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Dhumravarna Stuti by Ahamasura
% File name             : dhUmravarNastutiHahamasureNaproktA.itx
% itxtitle              : dhUmravarNastutiH ahamasureNa proktA (mudgalapurANAntargatA)
% engtitle              : dhUmravarNastutiH ahamasureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 8, Adhyaya 7
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org