ब्रह्माण्यकृता धूम्रवर्णस्तुतिः
॥ श्रीगणेशाय नमः ॥
ब्रह्माण्यूचुः ।
नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे ।
बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥
अमेयशक्तये तुभ्यं पार्वतीपतये नमः ।
वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥
मायाश्रयाय मायायाश्चालकाय परात्मने ।
महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥
जटाजूटधरायैव निर्मोहाय सदाशिव ।
परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ ३२॥
स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च ।
अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ ३३॥
परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः ।
गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ ३४॥
मुण्डमालाधरायैव नमस्ते सर्पभूषण ।
नानाभेदप्रकारेण खेलकाय नमो नमः ॥ ३५॥
वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके ।
तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ ३६॥
समरूपा महामाया देहस्ते नात्र संशयः ।
तस्य आत्मस्वरूपस्त्वमर्धनारीधृषे नमः ॥ ३७॥
एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् ।
सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ ३८॥
धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा ।
कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ ३९॥
इति धूम्रवर्णस्तुतिः ब्रह्माण्यकृता धूम्रवर्णस्तुतिः सम्पूर्णा ॥
एकादशस्तोत्रं
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः १० । ८.१० २९-३९॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 10 . 8.10 29-39..
Proofread by Yash Khasbage, Preeti Bhandare