सूर्यकृता श्रीगणाधीशस्तुतिः
॥ श्रीगणेशाय नमः ॥
सूर्य उवाच ।
नमस्ते विकटायैव मायामायिकरूपिणे ।
वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥
तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः ।
गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥
एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् ।
धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥
गजाननाय सर्वादिपूज्याय परमात्मने ।
हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः ॥ १३॥
परेशाय महाविघ्ननाशनाय महात्मने ।
दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥ १४॥
अनाथाय सनाथानां नाथाय सर्वदायिने ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ १५॥
अनन्तविभवायैवानन्तमायाप्रधारिणे ।
ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥ १६॥
मूषकवाहनायैव सर्वान्तरप्रचारिणे ।
मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥ १७॥
किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक ।
अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ १८॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगाद ह ॥ १९॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
मदीयस्तवनं चेदं सर्वदं सम्भविष्यति ।
त्वया कृतं पठेद्यश्च शृणुयात्तस्य सर्वदा ॥ २०॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
सन्तुष्टोंऽते ब्रह्ममयं करिष्यामि महामते ॥ २१॥
इति सूर्यकृता श्रीगणाधीशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः ४४ । ६.४४ १०-२१॥
- .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 44 . 6.44 10-21..
Proofread by Yash Khasbage, Preeti Bhandare