श्रीमहाकालीमहालक्ष्मीमहासरस्वतीकृता श्रीगणाधीशस्तुतिः
॥ श्रीगणेशाय नमः ॥
महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः ।
मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे ।
विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥ १४॥
लम्बोदराय देवाय मूषकध्वजिने नमः ।
अनाथानां सनाथाय नमो नाथाय ते नमः ॥ १५॥
परेशाय महेशेभ्यः सिद्धिदाय गजानन ।
अनन्ताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥ १६॥
ब्रह्मणां पतये तुभ्यं सदा शान्तिमयाय च ।
शान्तीनां शान्तिरूपाय परात्मने नमो नमः ॥ १७॥
हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे ।
कविभ्यः पददात्रे च कवीशाय नमो नमः ॥ १८॥
सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने ।
सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः ॥ १९॥
मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे ।
योगशान्तिस्थभावाय शान्तिदाय नमो नमः ॥ २०॥
शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने ।
नानारूपधरायैव खेलकाय नमो नमः ॥ २१॥
किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे ।
वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥ २२॥
भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके ।
तथेति ता गणाधीशो ह्यगदद्भक्तियन्त्रितः ॥ २३॥
इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ २४॥
इति श्रीमहाकालीमहालक्ष्मीमहासरस्वतीकृता श्रीगणाधीशस्तुतिः सम्पूर्णा ॥
एकादशस्तोत्रं
- ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः ४५ । ६.४५ १४-२४॥
- .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 45 . 6.45 14-24..
Proofread by Yash Khasbage, Preeti Bhandare