जन्ममृत्युविहीनं श्रीगणनाथस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
गर्भ उवाच ।
नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे ।
अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ १॥
ज्येष्ठराजाय देवाय देवदेवेशमूर्तये ।
अनादये परेशाय चादिपूज्याय ते नमः ॥ २॥
सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः ।
सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ३॥
गजाकारस्वरूपाय गजाकारमयाय ते ।
गजमस्तकधाराय गजेशाय नमो नमः ॥ ४॥
आदिमध्यान्तभावाय स्वानन्दपतये नमः ।
आदिमध्यान्तहीनाय त्वादिमध्यान्तगाय ते ॥ ५॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ ६॥
शिवाय शक्तये चैव विष्णवे भानुरूपिणे ।
मायिनां मायया नाथ मोहदाय नमो नमः ॥ ७॥
किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे ।
योगिनः शान्तिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ ८॥
रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् ।
जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ ९॥
इति जन्ममृत्युविहीनं श्रीगणनाथस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं नवमः खण्डः । अध्यायः १२ । ९.१२ ४४-५२॥
- .. mudgalapurANaM navamaH khaNDaH . adhyAyaH 12 . 9.12 44-52..
Proofread by Yash Khasbage, Preeti Bhandare