श्रीगणपतिरक्षाकवचगीतम्
पार्वतेयं महाकायं ऋद्धिसिद्धिवरदायकं
गणपतिं निधिपतिं सर्वजनलोकनायकं
रुद्रप्रियं यज्ञकायं नमामि हे दीर्घकायकं
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ १॥
एकदन्तं कृपानन्तं सर्वाङ्गसुन्दरदर्शनं
वक्रतुण्डं दिव्यऋण्डं अपूर्वमङ्गलस्पर्शनं
लम्बोदरं पीताम्बरं नमामि हे रोमहर्षणं
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ २॥
प्रेममूर्तिं कामपूर्तिं चराचरहृदस्पन्दनं
मन्त्रमुग्धं पापदग्धं अग्रपूज्यदेववन्दनं
प्रथमेशं श्रीगणेशं नमामि हे गौरीनन्दनं
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ ३॥
दिव्यतेजं कविराजं योगीजनात्मकारकं
शिवानन्दं पराद्वन्दं भावप्रदप्रेमधारकं
विघ्ननाशं दीर्घश्वासं नमामि हे गर्वमारकं
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ ४॥
प्रथमं मयूरेश्वरं द्वितीयं सिद्धिविनायकं
ततश्च बल्लालेश्वरं अस्ति वरदविनायकं
पञ्चमं चिन्तामणिदेवं षष्ठं च गिरिजात्मजं
विघ्नेश्वरं महागणपतिं नमामि अष्टदेवं
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ ५॥
तरुणी लभते वरं च प्रीत्यार्थी लभते प्रेमं
विद्यार्थी लभते विद्यां च मोक्षार्थी लभते धामं
अर्थार्थी लभते अर्थं च कामार्थी लभते कामं
हे गजानन गिरिजानन्दन कृष्णदासः भजति त्वाम् ॥ ६॥
॥ इति श्रीकृष्णदासविरचितं श्रीगणपतिरक्षाकवचगीतं सम्पूर्णम् ॥