श्रीगणपतिस्तोत्रम् ५
%४
द्विरदानन विघ्नकाननज्वलन त्वं प्रथमेशनन्दन ।
मदनपतिमाखुवाहन ज्वलनाभासितपिङ्गलोचन ॥ १॥
अहिबन्धन रक्तचन्दन प्रियदूर्वाङ्कुरभारपूजन ।
शशिभूषण भक्तपालन ज्वलनाक्षाऽव निजान्निजावन ॥ २॥
विविधामरमत्र्यनायकः प्रथितस्त्वं भुवने विनायकः ।
तव कोऽपि हि नैव नायकस्तत एव त्वमजो विनायक ॥ ३॥
बलिनिग्रह ईश केशवस्त्रिपुराख्यासुरनिग्रहे शिवः ।
जगदुद्भवनेऽब्जसम्भवः सकलान्जेतुमहो मनोभवः ॥ ४॥
महिषासुरनिग्रहे शिवा भवमुक्त्यै मुनयो धृताशिवाः ।
यमपूजयदिष्टसिद्धये वरदो मे भव चेष्टसिद्धये ॥ ५॥
गजकर्णक मूषकस्थिते वरदे त्वय्यभये हृदि स्थिते ।
जयलाभरमेष्टसम्पदाः खलु सर्वत्र कुतो वदापदाः ॥ ६॥
सङ्कल्पितं कार्यमविघ्नमीश द्राक्सिद्धिमायातु ममाखिलेश ।
पापत्रयं मे हर सन्मतीश तापत्रयं मे हर शान्त्यधीश ॥ ७॥
गणाधीशोऽधीशो हरिहरविधीशोऽभयकरो
गुणाधीशो धीशो विजयत उमाहृत्सुखकरः ।
बुधाधीशोऽनीशो निजभजकविघ्नौघहरको
मुदाधीशोऽपीशो यशस उभयर्धेश्च शरणम् ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं गणपतिस्तोत्रं सम्पूर्णम् ।
गणपतिस्तुतिः