श्रीगणपतिस्तोत्रम्८
विघ्नेश ! विघ्नचयखण्डननामधेय !
श्री शङ्करात्मज ! सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन् !
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ १॥
सत्पद्मराग मणिवर्ण शरीरकान्तिः ।
श्री सिद्धिबुद्धिपरिर्चिचिन्तकुङ्कुमश्रीः
दक्षस्तने वलयितातिमनोज्ञशुण्डो !
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ २॥
पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि-
र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः ।
सिन्दुरशोभितललाट विधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ३॥
कार्येषु विघ्नचयभीतविरञ्चिमुख्यैः
सम्पूजीतः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूजयो !
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ४॥
शीघ्राञ्चनस्खलनचुञ्चुरवोर्ध्वकण्ठ
स्थूलोन्दुरुद्रवणहासितदेवसङ्घः ।
शूर्पश्रुतिश्च पृथुवर्तुलतुङ्गतुन्दो !
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ५॥
यज्ञोपवितपदलम्भितनागराजो
मासादिपूण्यददृशीकृतऋक्षराजः ।
भक्ताभयप्रद ! दयालय ! विघ्नराजो !
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ६॥
सद्रत्नसारततिराजीतसत्किरीटः
कौसुम्भचारुवसनद्वय ऊर्जितश्रीः ।
सर्वत्रमङ्गलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ७॥
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनव तमोपहर्ता ।
आनन्दितत्रिभुवनेश ! कुमारबन्धो !
विघ्नं ममापहर सिद्धिविनायक! त्वम् ॥ ८॥
इति श्रीगणपतिस्तोत्रं सम्पुर्णम् ।