श्रीगणपतिस्तोत्रम् गीतिपूर्वम्
%२
सुमुख प्रथम स्वनामगायकपालक सेवकमङ्गलकारक ।
कामसुपूरक मङ्गलकारक, त्राहि विनायक भाविकतारक ॥ १॥
सिन्दूरलेपक मोदकभक्षक, दुर्जनशिक्षक निजजनवीक्षक ।
अङ्कुशधारक जगदुद्धारक, लोकविधारक संहारकारक ॥ २॥
अशेषकारक शक्तिविधारक, मूषकवाहक सुरदरदाहक ।
कलौ सुतारक त्वं हि विनायक, पालक सेवकमखिलाकहारक ॥ ३॥
करुणारससम्पूर्णकटाक्षामलवीक्षणैः ।
योऽनुगृह्णाति भक्तान्स प्रसन्नः सुमुखः स्मृतः ॥ ४॥
ये परित्यज्य विहितं निषिद्धं प्रचरन्ति ते ।
वक्रास्तानतुण्डत्येष वक्रतुण्डः प्रकीर्तितः ॥ ५॥
प्रथमं मङ्गलायैव गणेशः स्मर्यते बुधैः ।
सर्वदेवार्चितत्वात्स गणेशः प्रथमः स्मृतः ॥ ६॥
स्मरणान्निजभक्तानां सर्वविघ्नान्निवार्य यः ।
कामान् पूरयति क्षिप्रं गणेशः कामपूरकः ॥ ७॥
निवार्यामङ्गलान्याशु स्मरणाद्गणनायकः ।
करोति मङ्गलान्येष ततो मङ्गलकारकः ॥ ८॥
इन्द्रादीनां तु देवानां विविधा नायकाः खलु ।
न नायको गणेशस्य कोऽप्यतोऽसौ विनायकः ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं गीतिपूर्वं गणपतिस्तोत्रं सम्पूर्णम् ।