गणपतिवेदपादस्तवः

गणपतिवेदपादस्तवः

विष्णुरुवाच - श्रीमद्गजश्रेष्ठमुखागजात्मज प्रसीद पित्र्यं भगवन्भवद्गणम् । तुभ्यं नमः पूरय मन्मनोरथान्गणानां त्वा गणपतिं हवामहे ॥ १॥ शुभानां त्वा निधिमीशात्मजाक्षयं जनानां त्वा सर्वदाभीष्टसिद्धिदम् । गणानां त्वा गजवक्त्रकरं शुभं गणानां त्वा गणपतिं हवामहे ॥ २॥ कौतूहलं मे भवदीशपुत्र त्वां द्रष्टुमिष्टार्थद विघ्नराज । बालांशुमालीव निजांशुपुष्टे स्वयं यजस्व पृथिवीमुतद्याम् ॥ ३॥ प्रादुर्भव गणेश त्वत्पादभक्तिमतो मम । नमस्तुभ्यं प्रपन्नात्मन् रयिं वीरवतो यथा ॥ ४॥ तं गणाधिपतिं वन्दे दातुं सर्वमनोरथान् । जागर्ति यः स्वभक्तानां वसुवित्पुष्टिवर्धनः ॥ ५॥ प्रसीद श्रीफलैः पद्मैः शोभाभद्र विनायक । पालाशकुसुमैश्च त्वां हुवे चित्राय राधसे ॥ ६॥ त्वद्भक्तानां गणाधीश नमस्तुभ्यं शिवात्मज । त्वामाहुः सुहृदं सन्तः सुवीरं सुरथं रयिम् ॥ ७॥ विद्रुमाभं गणेश त्वां रत्नसिंहासनस्थितम् । स्तौमि वरोन्मुखं नित्यं प्रियमेधमुपस्तुतम् ॥ ८॥ येन संहरसि ब्रह्मंस्त्वद्भक्तार्तिं गणेश्वर ॥। स तु सुकृतिनां पाता दीर्घस्ते अस्त्वङ्कुशः ॥ ९॥ सर्वकामास्तु ये सद्भिर्विनायकविचक्षणैः । भोगादिभिः सदा सम्पन्मदाय परिषिच्यसे ॥ १०॥ प्रसन्नमिव बालार्कं प्रियं चास्तार्कमुत्तमम् । नमो गणपते तुभ्यं रयिं सहस्रवर्चसम् ॥ ११॥ नमस्ते स भवेद्विद्वानाकारः सर्वसुहृदाम् । यस्त्वां गणपते ध्यायेदन्तः शुभ्रावता पथा ॥ १२॥ स्मरामि चेद्गणेश त्वां निर्यान्तीन्द्रियदुर्जनाः । प्रसीद कृपया वेगादेते वाता इवोरवः ॥ १३॥ बभूवुः किल विघ्नेश त्वामाराध्य कृतश्रियः । नमस्ते बहवस्तात पुरा वयं च सूरयः ॥ १४॥ स्कन्दाग्रजादौ शुभकर्मणां कः पूज्यस्त्वदन्यः सकलामराणाम् । तुभ्यं नमस्तेऽखिलविघ्नशत्रो अस्य विश्वस्य भुवनस्य राजा ॥ १५॥ त्वं क्रीडसे यथा देव्या गणेशाङ्कनिषण्णया । पाहि नः सततं साकं तया वर्द्धस्व सुष्टुतः ॥ १६॥ त्वमेवाभीष्टदोऽसीति नित्यं गणपतेऽर्थिनाम् । प्रसीद प्रार्थयेतस्त्वां नृभिर्यतो विनीयसे ॥ १७॥ त्वां गणेश्वर संसारतुषारार्दितविग्रहः । प्रादुर्भव नमस्तुभ्यं स्तुषे मित्रमिव प्रियम् ॥ १८॥ नमस्ते विघ्नराजाशु निवारय शुभेतरम् । त्वमेवासि जगत्सर्वं यद्भूतं यच्च भव्यम् ॥ १९॥ परत्रेह च सौख्याय त्वामेवाहं गणाधिप । शरणं च मुमुक्षूणां प्रशंसन्ति प्रशस्तिभिः ॥ २०॥ त्वामाहुः कवयश्चित्रमवेद्यमजमव्ययम् । गणेश विद्याकामानामाविप्रमा मनीषिणम् ॥ २१॥ शोणाब्जस्रग्भराश्लिष्टं सुधांशुफलसन्निभम् । गणेशं नौमि तं वाण्यं यो रायो वनिर्महान् ॥ २२॥ असदाज्ञां सुहृद्रक्षां विघ्नेश त्वयि कुर्वति । सुखी भवति कौमारी ईशानो अप्रतिष्कुतः ॥ २३॥ अनाथनाथ विघ्नेश नमस्तुभ्यं प्रसीद नः । मादृशां कृपणानां च त्रायतां मरुतां गणः ॥ २४॥ मूषकासन सर्वेषां वराणामुत्तमोत्तमम् । प्रचोदय नमस्तुभ्यं यस्ते सखिभ्य आवरम् ॥ २५॥ सहायमस्माकमथो नियुद्धे भवात्तशस्त्रः सततं गणेश । नमोस्तु तुभ्यं दुरिताहितात्मनां त्वयाध्यक्षेण पृतना जयेम ॥ २६॥ त्वमेव लोकरक्षार्थं जागर्षि गणनायक । प्रदातुं प्रेरयस्यग्निं देवं देवेभ्यो हविः ॥ २७॥ भवामः पीडिता नित्यं गणेश वृजिनाहितैः । पातुं दुष्कृतशत्रुभ्यः प्रत्यङ्नः सुमना भव ॥ २८॥ विनायक नमस्तुभ्यं सूनवे तस्य शूलिनः । यस्तमिस्रक्षयायोच्चैरासूर्यं रोहयद्दिवि ॥ २९॥ त्वदाज्ञया किलाग्नीन्दुभानवस्ते गणेश्वर । सततं निर्मलांल्लोकानाये तन्वन्ति रश्मिभिः ॥ ३०॥ हन्तारं सर्वपापानां पातारं पुण्यकर्मणाम् । गणेश स्तौमि लोकानामध्यक्षं धर्मणामिमम् ॥ ३१॥ यो विनोदयतीशाङ्कादुमाङ्कं द्विरदानन । गर्भच्छिदोमिले एतावध्यक्षं धर्मणामिमम् ॥ ३२॥ यश्चिन्त्यते जितक्रोधैरपुनर्वृत्तये बुधैः । तं नमामि गणाधीशमध्यक्षं धर्मणामिमम् ॥ ३३॥ मनोनिधिभरः सोमः करिवक्त्रं प्रणम्य यत् । अवापावृत्तमुक्तिं तं वन्दस्व मारुतं गणम् ॥ ३४॥ यतस्त्वं विपदां हन्ता दातास्यखिलसम्पदाम् । अतो गणपते सद्भिर्नृभिः सुवीर उच्यसे ॥ ३५॥ याचे तत्काञ्चनं देहि गणेश त्वामकिञ्चनः । यत्तत्कृपणरक्षार्थं जेषिजिष्णो हि तं धनम् ॥ ३६॥ विनायकाशेषजगत्प्रणायक प्रसीद नः स्वीकृत पद्मपङ्कज । कृपार्णव त्वच्चरणाब्जसेविनामश्वपते गोपत उर्वरापते ॥ ३७॥ पुनः किमागच्छसि पापसङ्घ त्वत्पीडितोऽहं शरणं गणेशम् । भजामि निर्लज्ज भवत्प्रसङ्गान्निवर्तस्व हृदयं तप्यते मे ॥ ३८॥ पयोद इव विघ्नेश चातकं तोयधारया । दरिद्रं पाहि मां स्नेहाद्राया विश्वपुषा सह ॥ ३९॥ त्वामेव चिन्तये तुभ्यं नमः सिद्धिविनायक । वरेण्यं वरदं सर्वं मरुत्सु विश्वभानुषु ॥ ४०॥ शिवौ च श्रवणं नेत्रं शिवभक्तश्च केशवः । यो नार्चति गणेश त्वां न हिषस्तवनो मम ॥ ४१॥ यस्त्वं भवसि सन्नद्धो वन्दे तं त्वां गणेश्वरम् । त्वद्भक्तारिविनाशाय स्थिरो रणाय संस्कृतः ॥ ४२॥ गणेश नृत्यत्त्वत्पादत्रिपुरध्वंसिभीर्यतः । शिवाग्रे किल धर्मांशोराहरयो रथयुजः ॥ ४३॥ विघ्नेश त्वत्करोत्सृष्टतोयक्रीडारवात्किल । भवत्युद्विजिता भानोराहरयो रथयुजः ॥ ४४॥ क्रीडतस्ते वियन्नद्यां श्रुत्वा विघ्नेश बृंहणम् । भीता भवन्ति चण्डांशोराहरयो रथयुजः ॥ ४५॥ त्वमेव गतिरुत्तमा भवाकुलितचेतसां गणेश करुणाम्बुधे सुरेश शरणार्थिनाम् । भवन्तमेव सन्ततं भजाम्यचञ्चलेक्षणैः पश्येम शरदः शतं जीवेम शरदः शतम् ॥ ४६॥ करीन्द्रमुख भारतीं चतुर्मुखमुखोद्गतां स वेद लोकसम्मतां भवन्तमेव संस्मरे । तदा वयं शशिप्रभं विपक्षनेत्रभानुभिः पश्येम शरदः शतं जीवेम शरदः शतम् ॥ ४७॥ त्रिनेत्रपुष्करं मिनश्रियं त्वदीयमुज्ज्वलं प्रफुल्लविद्रुमप्रभं स्मरन्ति यन्महाशुभम् । तदद्य सर्वकामदं विनिद्रनिश्चलेक्षणैः पश्येम शरदः शतं जीवेम शरदः शतम् ॥ ४८॥ त्वमेव गुणमात्मानं कृतक्रियमविक्रियम् । गणेश श्रुतसम्पूर्वं विद्माहि त्वा धनं जय ॥ ४९॥ प्रक्षालितभवत्पाद गलन्ति षण्मुखाग्रज । पापकण्डूनिहत्यै त्वामपो याचामि भेषजम् ॥ ५०॥ गणेश मां रक्षसि पूजया चेत्प्रीतिर्बुधानां निरुपाधिकारा । पूर्वं न चेत्सत्कृतमानयोगाद्वितन्वते प्रति भद्राय भद्रम् ॥ ५१॥ अर्कमण्डलमध्यस्थं पुरुषं द्विरदानन । हिरण्मयं भजामस्त्वामुद्वयन्तमसस्परि ॥ ५२॥ विघ्नेश मद्दुष्कृतशत्रुवर्गं वृत्रं पुरारातिमिवामरेशः । कुरुष्व शान्तिं मम कुक्षि वह्नेस्त्वं मायाभिरनवद्यमायिनम् ॥ ५३॥ अर्थवाञ्छां ददातीति चेतस्येतान् विनायकः । प्रतिजानीहि लोकानां जयतामिव दुन्दुभिः ॥ ५४॥ विश्राण नादमिष्टानां गणेशाग्रे सुकर्मिणाम् । त्वमेव वन्द्यपादश्रीरसि प्रियो नो अतिथिः ॥ ५५॥ क्रौञ्चारातिगुरो तुभ्यं नमः शङ्करनन्दन । विघ्नेश भवदुःखार्त अस्मा अस्मा इदन्धसः ॥ ५६॥ हेरम्भ त्वामहं तस्मात्प्रार्थये भक्तवत्सल । कृपाब्धे त्वत्प्रपन्नानां यद्दित्ससि स्तुतो मघम् ॥ ५७॥ ब्रह्माणं शङ्करं विष्णुमेकदन्तं विदुर्बुधाः । त्वामेव सकलांल्लोकानग्निं च हव्यवाहनम् ॥ ५८॥ अपुण्यहिंसाशुभरक्षणत्वात्प्रयोजनं मन्मथवैरिपुत्र । सतां मतिर्नास्ति गणेशहृद्या सत्यं ब्रवीमि वध इत्सतस्य ॥ ५९॥ हृदि वा शिवयोरग्रे बहिर्वासि गणेश किम् । संशयं द्रष्टुमेति त्वामिति वा इति मे मनः ॥ ६०॥ गणेश त्वत्कटाक्षश्रीपक्षे ते च हि केवलम् । अलं कमखिलार्थानामन्यं पक्षं च न प्रति ॥ ६१॥ उमावृषाङ्कयोरग्रे यत्र विघ्नेश वर्तसे । सेवन्कृतनमस्कारस्तत्र देवाँउपह्वये ॥ ६२॥ कैवल्यप्राप्तये च श्रीवाक्सन्तानाभिवृद्धये । गणेश यास्त्रिलोकानां गृणन्ति विप्र ते धियः ॥ ६३॥ समस्त देवतामूर्ते साधून्पाहि गणाधिप । प्रसीद भूसुरैर्दत्तं पिबा सोममृतूँरनु ॥ ६४॥ परस्परं सुसंस्पृष्टं पितृपुत्रकयोरिव । प्रसिद्धो विघ्नराजाहं त्वमस्माकं तवस्मसि ॥ ६५॥ यद्भक्तवरदोऽसीति विघ्नेशाभक्तविघ्नद । कृतार्थोऽस्मि भवद्योगादुतोतत्सत्यमित्तव ॥ ६६॥ प्रसादसुमुखोऽस्माकं प्रादुर्भव गणेश्वर । दधिक्षीराज्ययुक्तान्नं प्रते वयं ददामहे ॥ ६७॥ यत्तत्समस्तविद्यानां जन्मकृद्वासि सम्पदाम् । गणेशालिङ्गितां लक्ष्मीमथा नो वर्द्धया गिरः ॥ ६८॥ नमस्ते देवदेवेश गणेश करुणानिधे । त्वत्प्रसादात्सदास्माकं विभूतिरस्तु सूनृता ॥ ६९॥ नमो नमस्ते त्रिपुरान्तकात्मज विपाप्मना पुण्यसमूहपीडितान् । पाहि त्वदीयाङ्घ्रिसरोरुहाश्रितांस्त्वं नः पश्चादधरादुत्तरात्पुरः ॥ ७०॥ गणेश्वर त्वां भगवान्प्रसूस्तां शम्भुस्त्रिलोक्यां सुतलाभकीर्तिम् । ब्रह्मर्षिदेवद्विजकीर्तनीयं ऋतप्रजातां बृहतीमविन्दत् ॥ ७१॥ गतिस्त्वमेवेति गणेश जाने तुभ्यं नमः स्कन्दगुरो प्रसीद । त्वत्पादभक्त्याखिलकामदाता अहं देवानामुत मर्त्यानाम् ॥ ७२॥ तस्य प्रसूनुं शरणं प्रपद्ये गणेश्वर त्वां तरुणेन्दुमौलेः । यः शूलपाणेः स्वभुजप्रतापादेक इद्राजा जगतो बभूव ॥ ७३॥ जानाति किं तेन हि यद्धि पारं यः सर्वविद्यारमणोऽपि साक्षात् । महद्गणेशाखिलदेवराशिः सो अङ्ग वेद यदि वा न वेद ॥ ७४॥ नमस्कुरु गणाध्यक्षमेतं चित्तं भजान्वहम् । वरदो हि स्वभक्तानामयं शिवाभिमर्शनः ॥ ७५॥ माहात्म्यं को नु जानाति तव स्वर्गफलार्थिनः । वीतविघ्नं गणेशार्यास्त्वया यज्ञं वितन्वते ॥ ७६॥ उपास्येऽमुं गणाधीशं भो चेतः कुत्र गच्छसि । श‍ृणुष्वार्यमनायात विश्वविन्मनसस्पतिः ॥ ७७॥ भक्तवात्सल्यकारुण्यादस्मान्पाहि गणाधिप । किमुत त्वद्गुणांस्तोतुं भुवनस्य पते वयम् ॥ ७८॥ यतो गणपते प्राप्तगजाकारोऽसि कौतुकात् । अतः क्षितीन्द्रमध्येऽभूदिभो राजेव सुव्रतः ॥ ७९॥ धर्मैकशरणान्रक्ष साधून्विघ्नेश सुव्रतान् । पापानि गोद्विजातीनां जहि रक्षांसि सुक्रतो ॥ ८०॥ गणेश त्वां महायोगी स्मरतीन्द्रियमारुतान् । निगृह्य चित्तानिन्द्रस्य अभीशूँरिव सारथिः ॥ ८१॥ श्रीपार्वतीपुत्र तव प्रसन्नं पादारविन्दं शरणं भजामः । गणेश नस्त्वत्करुणाविशेषात्सदासुगः पितुमाँ अस्तु पन्थाः ॥ ८२॥ इष्ट्वा त्वां विघ्नराजार्यांश्चतुर्वर्गफलार्थिनः । लभन्ते स्वानुकूलार्थान्साकमेकेन कर्मणा ॥ ८३॥ तयैव वेद्यमौलिस्त्वं श्रुतिवाचा गणेश्वर । त्रयीमयी त्वदुद्धार्य यज्ञं दधे सरस्वती ॥ ८४॥ विनायक त्वां प्रणमामि सद्भिर्विघ्नापहत्यै शुभकर्मनिष्ठैः । आराधनीयं सकलामराणां यज्ञस्य केतुं प्रथमं पुरोहितम् ॥ ८५॥ त्वामेव जाने सकलामराणां गतिर्गणेशाभयदानदक्षम् । सतां क्षितिः स्वर्गसुखोन्मुखानां नाभिं यज्ञानां सदनं रयीणाम् ॥ ८६॥ गणेशानुग्रहायामुमपसारय दुष्कृतम् । क्रतु भूमिषु विप्राणां सोमं सोमपते पिब ॥ ८७॥ कदा त्वत्करुणा तुभ्यं नमो विघ्नेश मानसम् । वत्सं प्रति ययौ स्नेहादाधेनुरिव धावतु ॥ ८८॥ यदि वा कमलार्थिहृच्छिशोर्गणपतेर्मुदे । रक्तपद्मसिताम्भोजैर्यजस्व जातवेदसम् ॥ ८९॥ तस्मात्त्वमेव विघ्नेश पावनः सर्वदा भव । स स्वामी श्रेयसे यस्माद्यो अस्मान्वीर आनयत् ॥ ९०॥ सश्रीकं तव सामर्थ्यं विघ्नराजाश्विनौ किल । अभूतां त्वत्पदध्यानात्कवी गम्भीरचेतसा ॥ ९१॥ तथापि न त्वा विबुधाः स्मरन्ति विघ्नेश नः पाहि गतिस्त्वमेव । इष्टं स्वकर्म तदुपास्त्यभावात्पुरः पश्यन्ति निहितमरतौ ॥ ९२॥ सुहृद्भवर्धिविघ्नेश त्वन्मुदे कृतकर्मणाम् । त्वामुद्दिश्य कृते ब्रह्मन्यज्ञे यज्ञेन उदव ॥ ९३॥ वन्दे प्रपन्नं तनयं गणेशं त्वां दक्षिणामूर्ति शिवस्य तस्य । यं भूसुराः सर्वहृदि प्रवेशमेकं सन्तं बहुधा कल्पयन्ति ॥ ९४॥ त्वमेव शम्भुर्हरिरब्जयोनिर्गणेश कल्याणनिधे नमस्ते । त्वदर्पितं यज्जगदन्तरात्मंस्तन्मे जुषस्व शिपिविष्ट हव्यम् ॥ ९५॥ गतिः सकलभूतानां गणेश स्मरणं तव । चरणस्वर्णपद्माभ्यामस्माकमुत्तमं कृधि ॥ ९६॥ गणेशाश्रमवर्णानां गुरवे ब्रह्ममूर्तये । साक्षाद्भव नमस्तुभ्यं विप्राय बृहते बृहत् ॥ ९७॥ ऐरावतासन स्तुत्यो भवसि त्वं गणाधिप । आखुयानोऽपि देवानामद्धा देव महाँ असि ॥ ९८॥ प्रसीद निक्षेप इवाधनस्य त्वत्पादभक्तस्य दयानिधे मे । नमामि विघ्नेश्वर सर्वदा त्वां प्रचेतसममृतं सुप्रतीकम् ॥ ९९॥ प्रसीद पाहि विघ्नेश नमस्ते शरणार्थिनाम् । प्रदातुं त्वमभीष्टार्थानेवाशूर उत स्थिरः ॥ १००॥ गणेश्वरातप्तहृदामिनांशुभिर्ग्रीष्मे मृदुर्वातशितांशुशीतलः । त्वं सर्वदा रक्षसि भीतचेतसां दक्षो देवानामसि हि प्रियोमदः ॥ १०१॥ निवारयाज्ञानभवान्धकारं गणेश कल्याणनिधे नमस्ते । पाहि प्रसीद श्रुतवत्सलत्वाद्देव इव सविता सत्यधर्मा ॥ १०२॥ ददासि यस्त्वं किल भारतीं च गणेश लक्ष्मीं भवदाश्रितानाम् । ते द्वेऽधुना वाक्कमलाच दैत्यान्सत्त्वं नो वीरवीर्याय चोदय ॥ १०३॥ स्वस्थचित्तं गणेश त्वां स्तुवन्ति प्रीतिभावतः । भवन्तं पुण्यवन्तस्तु शुद्धं शुद्धेन साम्ना ॥ १०४॥ नमामि विघ्नराजस्त्वं त्वमेव सर्ववाहनम् । त्वमेव वपुर्हृद्स्थानः पाता सोमानामसि ॥ १०५॥ गणेशोयमितीह चिन्तयताम् । हरत्यायविदां सर्वां असुरेभ्यः ॥ १०६॥ मखकामारित्रिनयनात्मजोऽसि त्वं रक्षसां ऋतुविघातकारिणाम् । हन्ता करीन्द्रमुखसोमवीरुधं यजमाने सुन्वति दक्षिणावति ॥ १०७॥ वरप्रदं गणेशं नमस्करोमि नित्यम् । सुरोत्तमं सुराणां च रथीतमं रथीनाम् ॥ १०८॥ धृताङ्कुशगणेश त्रिनेत्रतनयास्मान्पाहि । त्वदीयाङ्गहस्तमुष्टिर्दक्षिणा पात्वंहसः ॥ १०९॥ अक्ष्वित्वं शूलपाणेस्त्वत्पितुस्ता अभूवन् । विघ्नेश भान्ति श्रीभिर्याभिर्वा सूर्यः सह ॥ ११०॥ दन्तिश्रेष्ठमुखः पाशहस्तः सिन्दूरवर्णो गणेशः । दातुं नः श्रियमायाति दीप्तिमान्भुवो जनस्य दिव्यस्य राजा ॥ १११॥ किं नु ग्रहानुग्रहताविचित्रं भवत्सहायोऽस्ति यदीशपुत्र । प्रसीद विघ्नेश भवत्प्रसादाद्यं कामये तं तमुग्रं कृणोमि ॥ ११२॥ ध्यायामि तं काञ्चनशैलकुक्षौ गणेश्वरं किम्पुरुषप्रसिद्धाः यं किन्नरास्तुम्बरुनारदाद्याः पूर्णगभस्तिमीळते सुपाणिम् ॥ ११३॥ तुभ्यं नमस्ते कृतवह्निमूर्तिस्त्वमेव विघ्नेश्वर जातलीलः । ददासि सङ्गोप्य तया विशेषाद्भागं देवेभ्यो हविषः सुजात ॥ ११४॥ को नु त्वदन्यं शरणागताः श्रियः प्रसीद विश्वेश्वर भक्तवत्सल । त्वदाश्रितं शिष्यमिवान्वहं गुरुः सुनीतिभिर्नयसि त्रायसे जनम् ॥ ११५॥ चिन्तये वाश्रये कामं प्रसीद त्वां गणेश्वर । सम्पूर्णमिव शीतांशुं जातं पर्वणि पर्वणि ॥ ११६॥ गणेश्वरं विद्रुमपत्रकप्रभं वामाङ्कनिक्षिप्तकलत्रमिष्टदम् । ध्यायेत्स विघ्नाधिपतेरनुग्रहात्सर्वामृद्धिमृध्नोति य एवं वेद ॥ ११७॥ य इमं विघ्नराजस्य वेदपादस्तवं पठेत् । स भवेत्पुण्यकृद्धीमान्क्षणमध्येऽष्टसिद्धिमान् । प्रातर्मध्यन्दिने सायं नित्यं यः प्रयतः पठेत् ॥ ११८॥ अर्वाङ्मासत्रयात्तस्य पुरो भूत्वा गणेश्वरः । जातिस्मरत्वं विज्ञानं वाक्सिद्धिं चाचलां श्रियम् ॥ ११९॥ विज्ञानं निजरूपस्य ज्ञानं चोपनिषद्भवम् । ददाति भक्तवात्सल्याच्छ्रीमान्सिद्धिविनायकः ॥ १२०॥ इति भविष्योत्तरपुराणान्तर्गतः गणपतिवेदपादस्तवः सम्पूर्णः । Proofread by Narendran Madathil
% Text title            : Ganapati Vedapada Stava
% File name             : gaNapativedapAdastavaH.itx
% itxtitle              : gaNapativedapAdastavaH (bhaviShyottarapurANAntargataH)
% engtitle              : gaNapativedapAdastavaH
% Category              : ganesha, stava
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 4
% Indexextra            : (Scans 1, 2)
% Latest update         : October 10, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org