गणपत्यादिदेवतानां ध्यानक्रमः
१. श्रीपञ्चमुखहेरम्बगणपतिध्यानं
मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिणेत्राञ्चितैः
नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ।
दृप्तं दानमभीतिमोदकरदानब्जं शिरोऽक्षात्मिकां
मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानं भजे ॥ १॥
२. श्रीसुब्रह्मण्यध्यानं
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ २॥
३. श्रीवल्लीदेवीध्यानं
श्यामां श्यामालकान्तां द्रुतकनकमणिप्रस्फुरद्दिव्यभूषां
गुञ्जामालाभिरामां शिवमुनितनयां काननेन्द्राभिमान्याम् ।
वामे हस्ते च पद्मं तदितरकरवरं लम्बितं सन्दधानां
संस्थां सेनानिदक्षे समुदमपि महावल्लिदेवीं भजेऽहम् ॥ ३॥
४. श्रीदेवसेनाध्यानं
रक्ताभां रक्तवस्त्रां मणिमयखचितानेकभूषाभिरामां
देवीं माहेन्द्रमान्यां मधुरिपुनयनादुद्भवां देवसेनाम् ।
दक्षे हस्ते च पद्मं त्वितरकरवरं लम्बितं सन्दधानां
संस्थां स्कन्दस्य वामे समुदमपि गुहं लोकयन्तीं भजेऽहम् ॥ ४॥
५. नव वीराः ।
प्रथमो वीरबाहुः स्यात् द्वितीयो वीरकेसरी ।
तृतीयो वीरमाहेन्द्रः तुर्यो वीरमहेश्वरः ॥ ५॥
वीरपुरन्दरःपञ्चमः षष्ठो वीरराक्षसः ।
सप्तमो वीरमार्ताण्डो वीरान्तक इहाष्टमः ॥ ६॥
नवमो वीरधीरश्च नव वीरा इमे क्रमात् ।
गौरीपादसरोद्भूतनवरत्नलतात्मजाः ॥ ७॥
तत्तद्रत्नसमानाङ्गशोभाम्बरविभूषणाः ।
सासिखेटास्सदा सेव्याः स्कन्दसेनाधिपा वराः ॥ ८॥
५.१ - श्रीवीरबाहुध्यानम् ।
अम्बानूपुररत्नकिङ्किणिमणेर्जाता पुरा याऽबला
ख्याता रत्नलतेति सद्गुणवती तस्यास्सुतो धैर्यवान् ।
हस्ताम्भोजधृतासिखेटकवरः श्रीवीरबाहुर्महान्
ध्येयोवर्मकिरीटकुण्डलधरः सेनानिवीरादिमः ॥ ९॥
५.२ - श्रीवीरकेसरीध्यानम् ।
गौरीनूपुर मौक्तिकात्तरलवल्ल्याख्या पुरा याऽभवत्
तस्याः पुत्रवरः सुरेन्द्रविनुतः श्रीवीरकेसर्यसौ ।
खड्गं खेटकमावहन् करयुगे मुक्तामणीभूषणः
सेव्यो वर्मनिषङ्गहेतिविपुलो वीरद्वितीयो बली ॥ १०॥
५.३ - श्रीवीरमाहेन्द्रध्यानम् ।
अम्बानपुरपुष्यरागमणिजा या पुष्पवल्लीसमा
ख्याता कान्तिमती सुभूषणवती तस्याः सुतो भीषणः ।
श्रीमान्वीरमहेन्द्र इत्यभिधया ख्यातस्तृतीयोऽपरः
खड्गं खेटकमावहन्निषुधिभृत्सान्निध्यमेतु प्रभुः ॥ ११॥
५.४ - श्रीवीरमाहेश्वरध्यानम् ।
देवीमञ्जीरगोमेदकमणिवरजा या च गोमेदवल्ली
तस्याः सूनुर्नितान्तं सुरकुलहितकृद् वीरमाहेश्वराख्यः ।
सेनासन्नाहकोलाहल रवमुदितः खड्गखेटाभिरामः
सुब्रह्मण्यान्तरङ्गो विपुलकरयुगः सेवितस्तुर्यवीरः ॥ १२॥
५.५ श्रीवीरपुरन्दरध्यानम् ।
हेमाद्रिप्रभवापदाब्जविलसच्छ्रीनूपुरान्निर्गलद्
वैडूर्योपलसम्भवा गुणवती वैडूर्यवल्लीति या ।
तस्यास्सूनुरुदारधीः प्रविलसत्खेटासिमान् पञ्चमः
श्रीमान् वीरपुरन्दरो विजयते स्कन्दस्य सेनापतिः ॥ १३॥
५.६ श्रीवीरराक्षसध्यानम् ।
जाता या वज्रवल्ली तुहिनगिरिभवापादमञ्जीरवज्रात्
तस्याः सूनुर्बलाढ्यो युधि विजितरिपुः वीरयुग्राक्षसेन्द्रः ।
खेटप्रासोरुहस्तो ज्वलितनिजवपुः स्कन्दसेनाधिनाथः
षष्ठस्सव्यापसव्याहवहतदितिजः पूजनीयो वरेण्यः ॥ १४॥
५.७ श्रीवीरमार्ताण्डध्यानम् ।
जाता देव्यङ्घ्रिभूषान्मरतकलवलीत्याख्यया विश्रुता या
तस्यास्सूनुः प्रसिद्धो नवमणिमकुटो वीरमार्ताण्डसंज्ञः ।
विद्युत्कल्पोऽसिखेटोल्लसितकरयुगःसप्तमोऽभेद्यवर्मा
सेव्यः सेनानिसेनापतिरतुलबलो दैत्यहा देववन्द्यः ॥ १५॥
५.८ श्रीवीरान्तकध्यानम् ।
अम्बायास्तु पुरा प्रवाललवली ख्याता च या नूपुरात्
जाता तत्तनयोऽतुलोऽधिकबलो वीरान्तकाख्यः सुधीः ।
श्रीमान्खेटकखड्गभृत्करयुगः सेनानिवीराष्टमः
सङ्ग्रामान्तरधीरकृत्यमुदितस्कन्दः सदाऽभ्यर्चितः ॥ १६॥
५.९ श्रीवीरधीरध्यानम् ।
अम्बापादसरेन्द्रनीलमणिजा या नीलवल्ली सुदृक्
तस्यास्सूनुरघोरसङ्गरमुखे दैत्यान्तकः खेटभृत् ।
खड्गी कञ्चुकझल्लटादिविपुलः श्रीवीरधीराभिधः
सुब्रह्मण्यसुवीरवर्यनवमः सौख्यं सदा यच्छतात् ॥ १७॥
ये पठन्ति स्तुतिं नित्यं जयं सर्वत्र सर्वदा ।
वीरांश्च तनयान् कीर्तिं लभन्ते विपुलां श्रियम् ॥ १८॥
कन्यका प्रत्यहं प्रातः पठेत्पत्यर्थमादरात् ।
षण्मासाल्लभते वीरं भर्तारं सततं प्रियम् ॥ १९॥
सर्वरोगहरं पुण्यं भूतादीनां विनिग्रहम् ।
विषघ्नमुत्तमं स्तोत्रं पठतां सर्वसिद्धिदम् ॥ २०॥
इति श्रीस्कान्दपुराणान्तर्गतः गणपत्यादिदेवतानां ध्यानक्रमः सम्पूर्णः ।
Proofread by Aruna Narayanan