श्रीविष्णुकृतं श्रीगणेशाष्टकम्
गणेशनामाष्टकम्, गणेशस्तोत्रम्
नामाष्टकस्तोत्रम् च
श्रीविष्णुरुवाच ।
गणेशमेकदन्तञ्च हेरम्बं विघ्ननायकम् ।
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥
नामाष्टकार्थं पुत्रस्य शृणु मातर्हरप्रिये ।
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ १॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥ २॥
दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।
पालकं दीनलोकानां हेरम्बं प्रणमाम्यहम् ॥ ३॥ (परिपालकं तं दीनानां)
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारन्तं प्रणमे विघ्ननायकम् ॥ ४॥ (नमामि)
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम् । (लम्बोदरं पुरा)
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरञ्च तम् ॥ ५॥
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ । (विघ्नवारणकारणौ)
सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥ ६॥ (सम्पदास्फालरूपौ)
विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम् ।
(विष्णुप्रसादपुष्पञ्च यन्मूर्ध्नि मुनिदत्तकम् ।)
तद्गजेन्द्रमुखं कान्तं गजवक्त्रं नमाम्यहम् ॥ ७॥ (तद्गजेन्द्रवक्त्रयुक्तं)
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये । (हरगृहे)
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥ ८॥
एतन्नामाष्टकं दुर्गे नानाशक्तियुतं परम् ।
पुत्रस्य पश्य वेदे च तदा कोपं वृथा कुरु ॥
एतन्नामाष्टकं स्तोत्रं नामार्थसंयुतं शुभम् । (नामार्थसहितं)
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥
पुत्रार्थीं लभते पुत्रं भार्यार्थीं विपुलां स्त्रियाम् । (कुशलां स्त्रियाम्)
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥
इति ब्रह्मवैवर्ते महाम्पुराणे तृतीये गणपतिखण्डे
नारदनारायणसंवादे विष्णुपदिष्टं गणेशनामाष्टकं
स्तोत्रं सम्पूर्णम् ॥
(पुत्रनामाष्टकम्)
Description of eight names of gaNesha
gaNesha, ekadanta, heramba, vighnanAyaka,
lambodara, shUrpakarNa, gajavaktraM, guhAgraja
NA