श्रीगणेशाष्टोत्तरशतनामावलिः
ॐ विघ्नेशाय । विश्ववरदाय (विश्ववदनाय) । विश्वचक्षुषे ।
जगत्प्रभवे (जगत्पतये) । हिरण्यरूपाय । सर्वात्मने ।
ज्ञानरूपाय । जगन्मयाय । ऊध्वरेतसे । महाबाहवे नमः । १०
ॐ अमेयाय । अमितविक्रमाय । वेदवेद्याय । महाकालाय (महाकायाय) ।
विद्यानिधये । अनामयाय । सर्वज्ञाय । सर्वगाय । शान्ताय ।
गजास्याय नमः । २०
ॐ चित्तेश्वराय । विगतज्वराय । विश्वमूर्तये । अमेयात्मने ।
विश्वाधाराय । सनातनाय । सामगानप्रियाय । मन्त्रिणे ।
सत्त्वाधाराय । सुराधीशाय (सुराधिपाय) नमः । ३०
ॐ समस्तसाक्षिणे । निर्द्वन्द्वाय । निर्लोकाय (निर्लिप्ताय) ।
अमोघविक्रमाय । निर्मलाय । पुण्याय । कामदाय ।
कान्तिदाय (कवये) । कामरूपिणे। कामपोषिणे (कामवेषाय) नमः । ४०
ॐ कमलाक्षाय । गजाननाय (कलाधराय) । सुमुखाय । शर्मदाय ।
मूषकाधिपवाहनाय । शुद्धाय ।
दीर्घतुण्डाय (दीर्घतुण्डधराय) ।
श्रीपतये (श्रीमते) । अनन्ताय । मोहवर्जिताय नमः । ५०
ॐ वक्रतुण्डाय । शूर्पकर्णाय । परमाय (पवनाय पावनाय)
योगीशाय । योगधाम्ने (योगिवन्द्याङ्घ्रये) । उमासुताय (उमासूनवे) ।
आपद्धन्त्रे (अघापहाय) । एकदन्ताय । महाग्रीवाय ।
सिद्धसेनाय (सिद्धिसेविताय) नमः । ६०
ॐ सिद्धवेदाय (सिद्धिदाय) । करुणाय । सिद्धाय । (करुणासिन्धवे)
भगवते । अव्यग्राय (भव्यविग्रहाय) । विकटाय । कपिलाय ।
ढुण्ढिराजाय (ढुण्ढये) । उग्राय । भीमोदराय (भीमाय) । हराय
नमः । ७०
ॐ शुभाय । गणाध्यक्षाय । गणेशाय । गणाराध्याय ।
गणनायकाय । ज्योतिःस्वरूपाय । भूतात्मने । धूम्रकेतवे ।
अनुकूलाय । कुमारगुरवे नमः । ८०
ॐ आनन्दाय । हेरम्बाय । वेदस्तुताय । नागयज्ञोपवीतिने ।
दुर्धर्षाय । बालदूर्वाङ्कुरप्रियाय । भालचन्द्राय ।
विश्वधात्रे (विश्वधाम्ने) । शिवपुत्राय । विनायकाय नमः । ९०
ॐ लीलासेविताय (लीलावलम्बितवपुषे) । पूर्णाय । परमसुन्दराय ।
विघ्नान्तकाराय (विघ्नान्धकारमार्ताण्डाय विघ्नारण्यदावानलाय) ।
सिन्दूरवदनाय । नित्याय । विभवे ।
प्रथमपूजिताय (विष्णुप्रथमपूजिताय) ।
दिव्यपादाब्जाय (शरण्यदिव्यपादाब्जाय) ।
भक्तमन्दाराय (भक्तमन्दारभूरुहाय) नमः । १००
ॐ महाशूराय । रत्नसिंहासनाय (रत्नसिंहासनासीनाय) ।
मणिकुडलमण्डिताय । भक्तकल्याणाय (भक्तकल्याणदाय) । अमेयाय ।
कल्याणगुरवे । (अमेयकल्याणगुणसंश्रयाय) सहस्रशीर्ष्णे ।
महागणपतये नमः । १०८
इति गणेशाष्टोत्तरशतनामावलिः समाप्ता ।
Proofread by PSA Easwaran