श्रीगणेशाष्टोत्तरशतनामावलिः ३
ॐ गजाननाय नमः । गणाध्यक्षाय । विघ्नराजाय । विनायकाय ।
द्वैमातुराय । सुमुखाय । प्रमुखाय । सन्मुखाय । कृतिने ।
ज्ञानदीपाय । सुखनिधये । सुराध्यक्षाय । सुरारिभिदे ।
महागणपतये । मान्याय । महन्मान्याय । मृडात्मजाय । पुराणाय । -
पुरुषाय । पूष्णे नमः ॥ २०॥
ॐ पुष्करिणे नमः । पुण्यकृते । अग्रगण्याय । अग्रपूज्याय । अग्रगामिने ।
मन्त्रकृते । चामीकरप्रभाय । सर्वस्मै । सर्वोपास्याय । सर्वकर्त्रे ।
सर्वनेत्रे । सर्वसिद्धिप्रदाय । सर्वसिद्धाय । सर्ववन्द्याय ।
महाकालाय । महाबलाय । हेरम्बाय । लम्बजठराय । ह्रस्वग्रीवाय ।
महोदराय नमः ॥ ४०॥
ॐ मदोत्कटाय नमः । महावीराय । मन्त्रिणे । मङ्गलदाय ।
प्रमथाचार्याय । प्राज्ञाय । प्रमोदाय । मोदकप्रियाय । धृतिमते ।
मतिमते । कामिने । कपित्थप्रियाय । ब्रह्मचारिणे । ब्रह्मरूपिणे ।
ब्रह्मविदे । ब्रह्मवन्दिताय । जिष्णवे । विष्णुप्रियाय । भक्तजीविताय ।
जितमन्मथाय नमः ॥ ६०॥
ॐ ऐश्वर्यदाय नमः । गुहज्यायसे । सिद्धिसेविताय । विघ्नकर्त्रे ।
विघ्नहर्त्रे । विश्वनेत्रे । विराजे । स्वराजे । श्रीपतये । वाक्पतये ।
श्रीमते । शृङ्गारिणे । श्रितवत्सलाय । शिवप्रियाय । शीघ्रकारिणे ।
शाश्वताय । शिवनन्दनाय । बलोद्धाय । भक्तनिधये ।
भावगम्याय नमः ॥ ८०॥
ॐ भवात्मजाय नमः । महते । मङ्गलदायिने । महेशाय । महिताय ।
सत्यधर्मिणे । सदाधाराय । सत्याय । सत्यपराक्रमाय । शुभाङ्गाय ।
शुभ्रदन्ताय । शुभदाय । शुभविग्रहाय । पञ्चपातकनाशिने ।
पार्वतीप्रियनन्दनाय । विश्वेशाय । विबुधाराध्यपदाय ।
वीरवराग्रगाय । कुमारगुरुवन्द्याय । कुञ्जरासुरभञ्जनाय नमः ॥ १००॥
ॐ वल्लभावल्लभाय । वराभयकराम्बुजाय । सुधाकलशहस्ताय ।
सुधाकरकलाधराय । पञ्चहस्ताय । प्रधानेशाय । पुरातनाय ।
वरसिद्धिविनायकाय नमः ॥ १०८॥
इति गणेशाष्टोत्तरशतनामावलिः समाप्ता ।
Proofread by PSA Easwaran