श्रीगणेशचतुर्युगावतारस्तोत्रम्
मुनिरुवाच ।
गौरि ! तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९॥
षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १०॥
गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११॥
अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२॥
युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः ॥ १३॥
मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्चतुर्भुजः ॥ १४॥
गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा ॥ १५॥
एतस्य रक्षणं गौरि ! दैत्येभ्यः कुरु सर्वदा ।
इति श्रीगणेशचतुर्युगावतारस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ८५ । २.८५ ९-१५॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 85 . 2.85 9-15..
Repeat of four avatAras of gaNesha in the four yuga and other description.
Proofread by Preeti Bhandare