श्रीगणेशदशनामावलिः
ॐ गणाधिपाय नमः ।
ॐ उमापुत्राय नमः ।
ॐ अघनाशनाय नमः ।
ॐ एकदन्ताय नमः ।
ॐ इभवक्त्रेशाय नमः ।
ॐ देवाय नमः ।
ॐ मूषकवाहनाय नमः ।
ॐ विनायकाय नमः ।
ॐ ईशपुत्राय नमः ।
ॐ सर्वसिद्धिप्रदायकाय नमः ।
इति श्रीगणेशदशनामावलिः सम्पूर्णा ।
Proofread by Narendran Madathil