श्रीगणेशदुर्गस्तोत्रम्
श्रीकृष्ण उवाच ।
वद शिवमहानाथ पार्वतीरमणेश्वर ।
दैत्यसङ्ग्रामवेलायां स्मरणीयं किमीश्वर ॥ १॥
ईश्वर उवाच ।
शृणुकृष्ण प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
गणेशदुर्गदिव्यं च शृणु वक्ष्यामि भक्तितः ॥ २॥
त्रिपुरवधवेलायां स्मरणीयं कमीश्वर ।
दिव्यदुर्गप्रसादेन त्रिपुराणां वधः कृतः ॥ ३॥
श्रीकृष्ण उवाच ।
हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल ।
ईश्वर उवाच ।
शृणु वत्स प्रवक्ष्यामि दुर्गं वैनायकं शुभम् ॥ ४॥
सङ्ग्रामे च श्मशानेच अरण्ये चोरसङ्कटे ।
नृपद्वारे ज्वरे घोरे येनैव मुच्यते भयात् ॥ ५॥
प्राच्यां रक्षतु हेरम्बः आग्नेयामग्नितेजसा ।
याम्यां लम्बोदरो रक्षेत् नैरृत्यां पार्वतीसुतः ॥ ६ ॥
प्रतीच्यां वक्रतुण्डश्च वायव्यां वरदप्रभुः ।
गणेशः पातु औदिच्यां ईशान्यामीश्वरस्तथा ॥ ७॥
ऊर्ध्वं रक्षेत्धूम्रवर्णो ह्यधस्तात्पापनाशनः ।
एवं दशदिशो रक्षेत् हेरम्बो विघ्ननाशनः ॥ ८॥
हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः ।
कोटिजन्मकृतं पापं एकावृत्तेन नश्यति ॥ ९॥
गणेशाङ्गारशेषेण दिव्यदुर्गेण मन्त्रितम् ।
ललाटं चर्चितं येन त्रैलोक्यवशमानयेत् ॥ १०॥
मात्रागमसहस्राणि सुरापानशतानि च ।
तत्क्षणात्तानि नश्यन्ति गणेशतीर्थवन्दनात् ॥ ११॥
नैवेद्यं वक्रतुण्डस्य नरो भुङ्क्ते तु भक्तितः ।
राज्यदानसहस्राणि तेषां फलमवाप्नुयात् ॥ १२ ॥
कदाचित् पठ्यते भक्त्या हेरम्बस्य प्रसादतः ।
शाकिनीडाकिनीभूतप्रेतवेतालराक्षसाः ॥ १३॥
ब्रह्मराक्षसकूष्माण्डाः प्रणश्यन्ति च दूरतः ।
भूर्जे वा ताडपत्रे वा दुर्गं हेरम्बमालिखेत् ॥ १४॥
करमूले धृतं येन करस्थाः सर्वसिद्धयः ।
एकमावर्तनं भक्त्या पठेन्नित्यं तु यो नरः ॥ १५॥
कल्पकोटिसहस्राणि शिवलोके महीयते ।
लिङ्गदानसहस्राणि पृथ्विदान शतानि च ॥ १६॥
गजदानसहस्रं च गणेशस्तवनात् फलम् ।
इति श्रीपद्मपुराणे गणेशदिव्यदुर्गस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Krishna Valla, Yash Khasbage